SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्रीणतायाः कारणताधिक्यप्रसङ्गात् । न च प्रतियोगिज्ञानहेतुतामतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणतायाः कारणताबाहुल्यं विवरणम् ॥ विना न निस्तारः, पूर्वोपदर्शितापत्तेस्तन्मतेऽपि सम्भवादिति वाच्यम् । तन्मते लौकिकविषयतासम्बन्धेनाभावप्रत्यक्षं प्रति वप्र कारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन ज्ञानत्वेन हेतुत्वकल्पनेनानुपपत्तेरभावात् उक्तसम्बन्धघटितसामानाधिकरण्येन ॥१४॥ ज्ञानविशिष्टाया एकस्या अपरस्याश्च तत्तद्दोषविशिष्टाया इन्द्रियसम्बद्धविशेषणताया अभावलौकिकप्रत्यक्षनियामकत्वे घटत्वप्रकारकज्ञानसत्वे घटाभावसनिकर्षे आद्यायाः। पटत्वप्रकारकज्ञानसत्त्वे घटाभावांशे पटभ्रमजनकदोषसत्वे च द्वितीयायाः सम्पत्त्या अभावलौकिकप्रत्यक्षोत्पत्तेस्तदसत्त्वे च तदनुत्पत्तेरिति । स्यादेतत् , नव्यमतेऽपि विषयभेदेनेन्द्रियसम्बद्धविशेषणताया न कारणताधिका तद्धविच्छिन्नप्रतियोगिताकाभावसन्निकर्षे तदन्यधर्मप्रकारकज्ञानस्यैव तदभावांशे तत्प्रकारकभ्रमजनकदोषत्वाभ्युपगमेन घटत्वप्रकारकज्ञानकाले इन्द्रियसम्बद्धविशेषणतारूपकारणबलादभावप्रत्यक्षस्य घटाभावे आपत्तेरिष्टापत्तिपरिहरणीयत्वात् , तदा दोषध्रौव्येण घटाभावांशे पटभ्रमात्मकस्यैव तस्य स्वीकारादिति, मैवम् , तथापि नव्यैरिन्द्रियसम्बद्धविशेषणतायाः सहकारिताघटत्वप्रकारकज्ञानत्वादिना नानाविधा स्वीकार्या, प्राचीनैस्तूपदर्शितसम्बन्धेन ज्ञानत्वेनैवेति प्राचीनमत एव लाघवात् , एवं चाभावलौकिकप्रत्यक्षजनकसामग्रीव्याप्ताविन्द्रियसम्बद्धविशेषणतायामेककालीनत्वोपदर्शितसम्बन्धघटितस्वसामानाधिकरण्योभयसम्बन्धेन ज्ञानत्वेनैव घटत्वप्रकारकज्ञानादीनां निवेशः कर्त्तव्यो न तु प्रातिस्विकरूपेणेत्यपि प्राचीनमते लाघवं द्रष्टव्यम् । यत्तु नव्यमते विशेषणतावच्छेदकप्रकारकज्ञानस्यात्मनिष्ठसमवायप्रत्यासत्त्येन्द्रियसम्बद्धविशेषणतायाश्च विषयनिष्ठप्रतियोगितासम्बन्धेन हेतुत्वं कल्प्यत इति तयोः कारणतावच्छेदकसम्बन्धयोर्वैयधिकरण्येनैकपुरुषस्य घटत्वप्रकारकज्ञानकाले FACHARSHAN ॥१४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy