________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
पुनरसत्खरविषाणम् । इति सर्वशून्यवादिनो व्यलीकप्रतिभासानुपरमप्रसङ्ग एव, अहेतुकत्वात्। ततो नाभावैकान्ते कस्यचित्कुतश्चित्कदाचित्कचिजन्म संभवति, सदसदनेकान्तप्रतिषेधाद्भावैकान्तवत् । न केवलं स्वभावनैरात्म्ये एवायं दोषः, किं त्वन्तरुभयत्र वा निरन्वयसत्त्वेपि कार्यस्य निर्हेतुकत्वविशेषाज्जन्मविरोधसिद्धेः, जन्मनि वा तस्यानुपरतिप्रसङ्गात् । नन्वन्तस्तत्त्ववादिनो योगाचारस्य पूर्वविज्ञानादुत्तरविज्ञानस्योत्पत्तेः, सौत्रान्तिकस्य चान्तर्बहिस्तत्त्वोभयवादिनः पूर्वार्थक्षणादुत्तरार्थक्षणस्य प्रादुर्भावात्कुतो निष्कारणत्वं कार्यस्येति चेत्, न, कार्यकालमप्राप्नुवत: कारणत्वानुपपत्तेचिरतरातीतवत् कार्यकालं प्राप्नुवतोऽपि कारणत्वादर्शनादन्यथा सर्वस्य समानक्षणवर्त्तिनस्तत्कारणत्वप्रसङ्गात् । यस्य भावाभावयोः कार्यस्य भावाभावौ तदेव कारणमिति कल्पनायां, सत्यऽभवतः स्वयमेव नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्धम् , तत्र तदकारणत्वसाधनादन्यकार्यवत् , तस्य वा तदकार्यत्वसिद्धस्तद्वत् । कार्यमेव तदनन्तरं सम्भवतीति चेत्, कालान्तरेऽपि किं न स्यात् ? तदभावाविशेषात् समनन्तरवत् कालान्तरेपि किश्चिद्भवत्येव मूषिकाऽलक्षविषविकारवद्धाविराज्यादिनिमित्तकरतलरेखादिवच्चेति चेत्, समर्थे सत्यऽभवतः पुनः कालान्तरे भाविनस्तत्प्रभवाभ्युपगमे कथमक्षणिकेऽर्थक्रियानुपपत्तिः, तत्सत्त्वासत्त्वयोरविशेषात् । स्वसत्ताक्षणात्पूर्व पश्चाच्चासति समर्थे कारणे स्वकालनियताऽर्थक्रियोपपद्यते, न पुनः शश्वत्सतीति कुतो नियमः ? कारणसामर्थ्यापेक्षिणः फलस्य कालनियमकल्पनायामचलपक्षेपि समानः परिहारः । यथैव हि, क्षणिक कारणं यद्यदा यत्र यथोत्पित्सु कार्य तत्तदा तत्र तथोत्पादयति, तस्यैवंविधसामर्थ्यसद्भावात् तत्सामर्थ्यापेक्षिणः कार्यस्य स्वकालनियमः सिध्यतीति कल्प्यते तथा नित्यमपि कारणं यद्यदा यत्र यथा फलमुत्पित्सु तत्तदा तत्र तथोपजनयति, तस्य तादृशसामर्थ्ययोगात् तत्सामर्थ्यापेक्षिणः फलस्य कालनियमः किन्न कल्पयितुं शक्यः ? शाश्वतिकस्य प्रतिकार्य सामर्थ्यभेदादनित्यत्वप्रसंग इति चेत् , न, क्षणिकस्याप्येकस्य युगपदनेककार्यकारिणः प्रतिकार्य
For Private And Personal Use Only