________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Mi इति (६) हेत्वन्वयित्वेन तात्पर्यविषयो गम्यमानः प्रतिज्ञार्थ एव हेत्वर्थनान्वयीभविष्यतीति किं प्रतिज्ञाशब्दोपन्यासेनेत्यर्थः।
तथासन्धावचन इति (७) शाब्दी हीतिन्यायादित्यर्थः। 'समर्थनं नामेत्यादि (७) ततो निगमनादीनतिशेत एव समर्थन मिति रेणान्वयः। 'साध्येनेत्यादि(७)' साध्येन सह व्याप्तिमत्तया प्रदर्शितस्यहेतोः, धर्मिणी भावसाधनं (८) धार्मणि साधितस्य हेतोः साध्येन सह व्याप्तिमत्ताप्रदर्शनमित्यत्र विना पौर्वापर्य न कश्चिद्विशेषः, सः (९) क्रमयोगपद्याभावः, तावता (१२२-१-२)विपर्यये बाधकप्रमाणोपदर्शनेन, साधनधर्ममात्रान्वयः (२) यावत्साधनाश्रयाश्रितत्वं, अदर्शनमप्रमाणम् (३), अदर्शनमात्रं क्षणिकत्वाभावस्य न साधकमित्यर्थः । अस्यैवायोगस्यैव, तेनेति (७) तेन कार णेन, अर्थस्य क्रमयोगपद्यलक्षणव्यापकधर्मानुपलम्भो नित्ये सत्त्वं बाधत इति सत्त्वाभावेन क्रमयोगपद्याभावस्य व्याप्तिः सिख्यति बाधकप्रमाणेन च स्वाभ्युपगमवाधादिना न विपर्ययशङ्केति नानुमानान्तरापेक्षयानवस्थेति भावः। प्रमाणाभ्यां (९) प्रत्यक्षानुपलम्भाभ्याम् , तद्धेतुष्विति (९) । ननु प्रकृतहेतुत्वग्रहे स्वहेतुत्वग्राहकापेक्षायामात्माश्रयोऽन्यहेतुत्वग्राहकापेक्षायामन्योन्याश्रयादिकमिति । तद्धेतुष्वित्ययुक्तमभिधानमिति चेत्, न । समूहान्वयव्यतिरेकाभ्यां समूहे कारणत्वग्रहे तदितरगृहीततत्कार्यकारणताकसमूहसत्त्वे यद्व्यतिरेकेऽवश्यं कार्यव्यतिरेकस्तावत्समूहसत्वे तत्सत्त्वे चावश्यं तत्कार्यसवमित्यन्वयव्यतिरेकयोहस्य विशिष्य तत्कारणत्वग्राहकत्वे दोषाभावात् । यत्तु, स्वखव्याप्याभिन्नासु यावतीषु व्यक्तिषु सतीषु सव्यापारयदवच्छिन्नाधिकरणक्षणोत्तरक्षणे यदवच्छिन्नाधिकरणत्वं तावतीषु व्यक्तिषु सतीष्वेव सव्यापारयदवच्छिन्नानधिकरणक्षणोत्तरक्षणे यदवच्छिन्नानधिकरणत्वं तदवच्छिन्नं प्रति तदेव जनकत्वम् , आकाशाभावकाले रासभादेर्घटादावुभयसन्चात् सतीष्वेवेत्य
For Private And Personal Use Only