SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir एकस्येति (१२०-१-१२) तथा च साध्यविषयविशिष्टज्ञानाज्ञानाभ्यामेव जयपराजयसिद्धेः किं साधनसामर्थ्यज्ञानाज्ञानाभ्याम् , नह्ययं समीचीनसाध्यज्ञानवानयं चासम्यग्ज्ञानवानित्येतावत्सम्योद्घोषणेन शृङ्गग्राहिकया जयपराजयव्यक्तिर्न भवतीति, न च क्वचित्तत् क्वचिदेतज्जयपराजयप्रयोजकम् , अननुगतस्खाहेतुत्वात् , पक्षसिद्ध्यसिद्ध्योरनुगतयोरेव तत्त्वौचित्यादिति भावः। तद्दोष| मात्रे ज्ञानसिद्धेरिति (१४) जयः पराजयो वा स्यादित्यनेन योगः, वादिनः पक्षसिद्ध्या जयो वचनाधिक्यप्रयुक्तसाधनसामर्थ्याज्ञानात्पराजयः, प्रतिवादिनच दोषज्ञानाजयो गुणाज्ञानाच पराजयः स्यादित्यर्थः । न जयः पराजयो वा स्यादिति (१२०-२-१) परस्परविप्रतिषेधादित्यर्थः । समयबन्धविघटकत्वादधिकं पराजयाधिकरणमित्याशङ्कते स्यान्मतमित्यादिना (२), समयबन्धेऽपि साधनतदूषणामिधाने एवोपक्रान्ते न त्वधिकानधिकोद्भावने इति नायं पन्थाः प्रामाणिक इत्याशयवान् समाधत्ते तदप्यपेशलमित्यादिना (३), साधयेदिति साधनस्वरूपाज्ञानमिति (च) शेषः । तद्वचन (५) इति, वचनाधिक्यं वचनेयत्ताव्याप्यमिति तज्ज्ञानात्सैव सिद्ध्यतु न तु साधनस्वरूपाज्ञानं तस्य तद्व्याप्यत्वादिति भावः । द्विष्टमित्यनन्तरं यतस्त्वयाभ्युपगतं तत इति शेषः । अनर्थकस्यापीति (१०) अनिष्टसाधकत्वेन द्वेषविषयस्यापीत्यर्थः, वचनाधिक्यमात्रमिति (१०) मात्रपदेनोद्भावननिरासः, द्विष्यत इति (१०) तथा च द्विष्टोद्भावनेन पराजयः साध्यत इत्यर्थः । अदोषोद्भावनमिति (१३) एकसाधनस्य साधनान्तरादृषकत्वादिति भावः। भवान् सौगतः, पक्षधर्मवदिति (१४) भावप्रधाननिर्देशात्पक्षधर्मत्ववदित्यर्थः। तदुभयस्यापीति (१४), सपक्षसचविपक्षव्यावृत्तिरूपसाधर्म्यवैधयोभयस्यापीत्यर्थः। त्रिरूपत्वप्रतिज्ञानादिति (१४) अबाधितविषयत्वासत्प्रतिपक्षत्वयोःप्रामाण्यमात्रसाधारणत्वेन हेतुरूपत्वा २२ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy