________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailasagarsur Gyanmandir
भेदेनैकस्यां व्यक्तौ किं स्यात् । फलितमाह, न स्यात् तस्यां मतावपि (११७-१-१२) किं पुनरर्थ इत्यपेरर्थः । यदीदं । नानाकारभ्रमजनकत्वं स्वयमनाद्यविद्योपकल्पितेभ्योऽर्थेभ्यो रोचते तत्र के वयं विचारका भवामः। न केचनाविद्याविलासनिवृत्तो विचारस्याक्षमत्वादिति भावः । 'किञ्चिति' तस्यां चित्रमतावपि (११७-१-१३) नु इति वितर्के एकता किं स्यात् , फलितमाह, न स्यादनेकाकारविरोधादिति भावः । यदीदमनेकाकारविरुद्धैकत्वभ्रमजनकत्वं चित्रायै बुद्धयै रोचते तत्र के वयं विचारका न केचन पर्यायार्थविरोधिद्रव्यादेशैकान्तस्य संवृत्युपकल्पितस्य विचारापरावर्तनीयत्वादिति भावः। कचिदेकवेदनेति (११७२-३) नानैकत्वविषयकापेक्षाबुद्ध्यैवानेकत्वस्योत्पत्तेरभिव्यक्तेर्वा एतत्पक्षद्वयविचारोऽस्मत्कृतनयामृततरङ्गिणीतोऽवसेयः। तथा सतीति' (११७-२.५) अनेकत्वप्रयोजकापेक्षाबुद्धिहेतुत्वे नैकत्वसाधने संविदाकारवत् पीताद्याकारे प्रत्येकमेकत्वसिद्धौ तत्समूहाश्रयानेकचैतन्यदृष्टान्तेनैकत्राप्यनेकाकारसिद्धेरित्यर्थः। अन्तरिति (११७२-६)षष्ठ्यनतमव्ययं अन्तस्तत्त्वस्येत्यर्थः । नन्वनेकचैतन्यव्याप्तानेकाकारस्य चित्रज्ञानस्य दृष्टान्तत्वोक्तिरसङ्गतानेकाकाराणां स्वाश्रयाश्रितत्वरूपसंबलना(लिता)या एव चित्रत्वव्यवहारप्रयोजकत्वादिति चेत् , न, अत्र व्यवहारस्यासाध्यत्वात्कथञ्चिदेकानेकात्मकत्वस्यैव तत्वात् , हेतोश्च तत्र तथाबुद्धेरेवोपन्यासात् , सा च ययापेक्षया तया साध्यमपीत्यदोषात् , नानाश्रयेषु नानाकारकृतश्चित्रत्वव्यवहारोऽपि सामान्यविवक्षयोपपद्यत एवेत्थमेव पृथिव्यादौ नानारूपवत्वस्य धान्यराशौ च नानाधान्यत्वस्य व्यवहारो नानुपपन्न इति दिग् । चित्राद्वैतवादी संवेदनाद्वैतवादिनं प्रत्याह-स्यान्मतमिति' (११७-२-७) 'तदानेकेनेति'(११७-२-९) एकदेशवचनादेवानेकसजातीयत्वस्य च सिद्धरित्यर्थः । चित्रज्ञानप्रतिबन्यैवैतत् समाधत्ते, तदेतदित्यादि (११७२-१०) अव
For Private And Personal Use Only