SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FRORAKSHASTRA ततो न झानाज्ञानमात्रनिबन्धनौ जयपराजयौ शक्यव्यवस्थौ, यथोदितदोषोपनिपातात् । स्वपक्षसिद्ध्यसिद्धिनिबन्धनौ तु तौ निरवद्यौ, पक्षप्रतिपक्षपरिप्रहवैयाभावात् कस्यचित्कुसश्चित्स्वपक्षसिद्धौ सुस्थितायां परस्य पक्षसिद्धेरसंभवात् सकृत्तज्जयपराजययोरप्रसक्तेः । न हि वादिना साध्याविनाभावनियमलक्षणेन हेतुना स्वपक्षसिद्धौ विधातुं शक्यायामपि प्रतिज्ञोदाहरणादिवचनमनर्थकमपजवाय प्रकल्प्यते, तद्विघाताहेतुत्वात्ततः प्रतिपक्षासिद्धेः, प्रतिपाद्याशयानुरोधस्तत्प्रयोगात्तत्प्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात् । नापि हेतोर्विरुद्धतोद्भावनादेव प्रतिवादिनः स्वपक्षसिद्धौ सत्यामपि दोषान्तरानुद्भावनं तस्य पराजयाय प्रकल्प्यते, तत एव । एतेन स्वपक्षसिद्धौ कृतायामपि परपक्षनिराकरणं, तस्मिन्या स्वपक्षसाधनाभिधानं न वादिप्रतिवादिनोर्जयप्राप्तिप्रतिबन्धकमिति प्रतिपादितं बोद्धव्यम् । तदेवं साधर्म्यवैधयोरन्यतरेणार्थगतौ तदुभयवचनं वादिनो निग्रहाधिकरणमित्ययुक्तं च व्यवस्थितम् । प्रतिज्ञादिवचनं निग्रहस्थानमित्येतत्कथमयुक्तमिति चेत् , उच्यते । प्रतिज्ञानुपयोगे शाखादिष्वपि नाभिधीयेस, विशेषाभावात् । न हि शास्ने प्रतिज्ञा नाभिधीयते एव अनियतकथायां वा, अग्निरत्र धूमात्, वृक्षोयं शिशपात्वादित्यादिवचनानां शास्ने दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिप्रतिज्ञावचनानामनियतकथाचा प्रयोगात् । परानुप्रहप्रवृत्तानां शासकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेव, उपयोगित्वात्तस्येति चेत्, वादेपि सोस्तु, तत्रापि तेषां तादृशत्वात् , वादेऽपि विजिगीषुप्रतिपादनायाचार्याणां प्रवृत्तेः। नियतकथायां प्रतिज्ञाया न प्रयोगो युक्तः, तद्विषयस्यार्थागम्यमानत्वानिगमनादिवदिति चेत् , तत एव शास्त्रादिष्वपि। न हि तत्र जिगीषवो न प्रतिपाद्याः प्रतिज्ञादिविषयो वा सामर्थ्यान्न गम्यते । शास्नादावजिगीषूणामपि प्रतिपाद्यत्वात् प्रतिज्ञादेरप्रयोगे केषाश्चिन्मन्दधियां प्रकृतार्थाप्रतिपत्तेर्गम्यमानस्य विषयस्यापि प्रयोगः, तत्प्रतिपत्त्यर्थत्वादिति चेत् , जिगीषवः किमु मन्दमतयो न सन्ति ? येन तथा तेषामप्रतिपद्यमानानां प्रतिपत्तये For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy