________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जातुचिदस्वसंवेद्यत्वाऽप्रतीतेस्तथा वक्तुमशक्तः, अन्यथा पुरुषस्य स्वसंवेद्यसुखादिसंबन्धात्स्वसंवेद्यत्वं, न स्वत इति वदतो निवारयितुमशक्यत्वात् , चैतन्यविशेषेण हेतोर्व्यभिचारप्रतिपादनाच्च, न ततोऽचेतनत्वसिद्धिः, सुखादीनाम् । न चैषां चेतनत्वसाधनेऽपसिद्धान्तः स्याद्वादिनां प्रसज्येत, चैतन्यजीवद्रव्यार्थादेशाचेतनत्वप्रसिद्धेः, सकलौपशमिकादिभावानां सुखज्ञानादिप्रतिनियतपर्यायार्थादेशादेव सुखादीनां ज्ञानदर्शनाभ्यामन्यत्ववचनात् । तथापि ज्ञानात्मकाः सुखादयो, ज्ञानाभिन्नहेतुजत्वाद्विज्ञानान्तरवदिति चेत्, न, सर्वथा विज्ञानाभिन्नहेतुजत्वासिद्धत्वात् , सुखादीनां सवेद्योदयादिनिमित्तत्वाद्विज्ञानस्य ज्ञानावरणान्तरायक्षयोपशमादिनिबन्धनत्वात् । कथश्चिद्विज्ञानाभिन्नहेतुजत्वं तु रूपालोकादिनानैकान्तिकं, यथैव हि ततो विज्ञानस्योत्पत्तिस्तथा रूपालोकादिक्षणान्तरोत्पत्तिरपीति परैः स्वयमभिधानात् । तदेतेन यदभ्यधायि "तदतदूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादिकिमज्ञानं विज्ञानाभिन्नहेतुजम्" ॥१॥ इति तदपास्त, सुखादीनां विज्ञानरूपत्वासिद्धेः । “ सुखमाबादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्यायनः कान्तासमागमे" ॥१॥ इति वचनादतपाः सुखादय इति । अतद्रूपाणां तद्रुपोपादानत्वे सर्वस्य सर्वोपादानत्वप्रसक्तिः । न च सुखादयो विज्ञानाभिन्नोपादानाः स्युः । विज्ञानाभिन्नसहकारित्वं तु यथा सुखादीनां तथा रूपादीनामपि । इति ततस्तेषां विज्ञानात्मकत्वसाधने रूपादीनामपि तथात्वसाधनं स्यात् । तदुक्तं "तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम्" ॥१॥ इति । यदि पुनरिन्द्रियहेतुजत्वं विज्ञानाभिन्नहेतुजत्वमित्यभिधीयते, तदपि न सुखादीनां ज्ञानत्वं साधयति, द्रव्येन्द्रियानिन्द्रियैर्व्यभिचारात् । इति नैकान्ततो ज्ञानात्मकाः सुखादयो, द्रव्यार्थत एव तेषां चेतनत्वोपपत्तेः, चेतनद्रव्यादात्मनोऽनर्थान्तरभूतानामचेतनत्वविरोधात् । एतेन ज्ञानादर्थान्तरभूतत्वात्सुखादीनामचेतनत्वमेवेति वदन्तोऽपाकृताः प्रत्येतव्याः, चेतनादात्मनोऽनर्थान्तरत्वेन कथनिचेतनत्वसिद्धेः। आत्मनश्चेतनत्वम
For Private And Personal Use Only