SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेद प्रथमः॥ ॥११६॥ पूर्वकान्वयव्यतिरेकादिज्ञानं तच्छ्न्यत्वात्तदेकोपयोगापरिणतत्वात् , अभिलापसंसर्गरहितत्वाच्छब्दाविषयत्वात् , विचारस्य च प्रातिस्विकजात्यपरिचये शब्दावच्छेदेनैव पर्यवसानादिति भावः। प्रत्यक्षानुपलम्भसहकारिण (१०८-१-५) इति प्रत्यक्षं यत्र धूमस्तत्रापिरित्यन्वयसहचारज्ञानम्, अनुपलम्भो यत्राग्निर्नास्ति तत्र धूमोऽपि नास्तीति व्यतिरेकसहचारज्ञानं तौ सहकारिणौ यस्य स तथा तस्येत्यर्थः। 'यतस्तत्रेति' (१०८-१-९) तत्प्रकारकज्ञानस्यैव तदभावप्रकारकज्ञानविरोधित्वेन निर्विकल्पकस्य च तथात्वेनसमारोपाविरोधित्वादित्यर्थः। सन्निधानाभेदात् (१०८-१-१०) सन्निधानतुल्यत्वात् , भाषाभावयोरिति (१०८-१-१४)यद्भावे यद्भावः यदभावे च यदभावस्तं प्रति तस्य साधकतमत्वमित्यर्थः ॥६॥ संवेदनाद्वैतवाद्याहत्वन्मतामृतबाह्याना सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानो स्वेष्टं दृष्टेन बाध्यते ॥७॥ त्वम्मतमनेकान्तात्मकं वस्तु तज्ज्ञानं च । तदेवामृतम् , अमृतस्य मोक्षस्य कारणत्वात् सर्वथा निर्बाधत्वेन परितोषकारित्वाच । ततो बाह्याः सर्वथैकान्तास्तदभिनिवेशिनश्च वादिनः । ते चाप्ताभिमानदग्धा एव विसंवादकत्वेन तत्त्वतोऽनाप्तत्वावयमाप्ता इत्यभिमामानेन स्वरूपात्प्रच्यावितत्वाइग्धा इव दग्धा इति समाधिवचनत्वात् , तेषां स्वेष्टस्य सदायेकान्तस्य दृष्टबाधनात् । अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्तश्च सकलजगत्साक्षीभूतं विपक्षे प्रत्यक्षविरोधलक्षणमनेन दक्षयति । सदायेकान्तविरोधस्यानेकान्तात्मकवस्तुसा' क्षात्करणलक्षणत्वाद् , बहिरिवान्तरपि तत्त्वस्यानेकान्तात्मकतया सकलदेशकालवर्तिप्राणिभिरनुभवनात् सुनिश्चितासंभवद्वाधकप्रमाणत्वसिद्धेः । न हि किञ्चिद्रूपान्तरविकलं सदसन्नित्यानित्यायकान्तरूपं संवेदनमन्यद्वा संपश्यामो यथात्र प्रतिज्ञायते, चित्रज्ञानक्कथचिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेषणात् । स्यान्मतं "सुखादिचैतन्यमसंकीर्णविशेषात्मक *%%2522555 ॥११६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy