SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ज्यादित्यधिकं समर्थितमनेकान्तव्यवस्थायामस्माभिः । 'शरीरेणेति' (१०५-१-३) शरीरनिवृत्तिरूपे मोक्षे शरीरसहावस्थिततचज्ञानस्य हेतुत्वायोगादित्यर्थः । साक्षादिति (१०५-१-४) साक्षात्काररूपम् अपरोक्षमिथ्याज्ञानेऽपरोक्षतत्वज्ञानस्यैव नाशकत्वादिग्मोहादौ तथा दर्शनादिति भावः । शरीराभावे (१०५-१-५) इति साक्षात्तत्त्वज्ञानस्य शरीरनिवृत्तिरूपमोक्षहेतुत्वे तदुत्पत्त्यनन्तरं तदभावस्य बलादापत्तेरिति भावः । ननु तत्वज्ञानस्य मिथ्याज्ञानादिनिवृत्तिद्वाराशरीरान्तरानुत्पत्तौ कारणता । तथा च न्यायसूत्रं द्वितीयं “दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग" इति । एवं चोत्पन्नतत्त्वज्ञानस्य यावच्छरीरस्थिति नोपदेशविरोध इत्याशङ्कय दूषयितुमाह, यदि पुनरित्यादिना | (१०५-१-६) उपात्तशरीरस्यापीति (१०५-१-९) एकविंशतिभेदभिन्नदुःखनिवृत्तरेव नैयायिकसाम्प्रदायिकर्मोक्षत्वाभिधानादुक्तसूत्रस्य चार्थसिद्धक्रमाभिधानपरत्वादिति भावः । वस्तुतो "मुख्यदुःखध्वंसविशेषो मुक्तिः, इत्याक्तनमतमप्ययुक्तम् , उत्पन्नानुत्पन्नदुःखविकल्पग्रासेन तस्या अपुरुषार्थत्वादुत्पन्नस्य स्वत एव नाशादनुत्पन्नस्य च नाशयितुमशक्यत्वात् , न च चरमदुःखमुत्पाद्यतत्वज्ञानं तन्नाशयतीति न मुक्तेरपुरुषार्थत्वमित्यपि युक्तम् , दुःखे प्रवृत्तेः कथमपि कस्याप्ययोगाच्चरमत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् सुखान्तमुक्तेरसम्भवप्रसङ्गाच्चेति दिक । तथा चारित्रसहितमिति (१०५-२-३) ननु केवलज्ञानस्यैव यथाख्यातचारित्रस्य परनिःश्रेयसरूपफलजनने विलम्बस्तुल्य एव परमशुक्लध्यानरूपसमाधेरविलम्बेन तदुत्पत्त्युपगमे च तस्यैव परनिःश्रेयसहेतुत्वमुच्यतां किं ज्ञानचारित्रयोस्तत्कल्पनयेति चेत् न, अन्वयव्यतिरेकाभ्यामागमाच ज्ञानचारित्रयोः परनिःश्रेयसहेतुत्वसिद्धावुक्तसमाधेरत्वकल्पनेनाविरोधात् , न च मिथ्याज्ञानवासनायाः संसार 55 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy