SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बुद्धधध्यवसितं (१०३-१-१०) बुद्धिप्रतिबिम्बितम्, चेतयते (१०३-१-१०) निश्चिनोति, तदुपायानुष्ठानवैयर्थ्यमेव स्यादिति (१०३-१-११) सर्वज्ञत्वोपायानां ध्यानमौनाचरणादीनां निरर्थकतैव स्यादित्यर्थः । 'स कोऽन्य इति' (१०३-२-३) एतेन दर्पणे मुखप्रतिविम्बस्थानीयो बुद्धावहमिति पुरुषोपरागो मुखरक्ततासंसर्गस्थानीयो घट इत्यादिविषयोपरागो बिम्बलनावेशस्थानीयः करोमीति व्यापारावेश इत्यंशत्रयकल्पनमपास्तम् । सम्बन्धसामान्यस्यातिप्रसज्ञ्जकत्वात् सम्बन्धविशेषस्य च तादात्म्यातिरिक्तस्य युक्तिरिक्तत्वादमूर्त्तस्यात्मनः प्रतिविम्बादिकल्पनाया बालक्रीडाप्रायत्वादिति द्रष्टव्यम् । न निवार्यन्त इति ( १०४-१-१४ ) न च ज्ञानत्वाद्यवच्छिन्न एवादृष्टान्तःकरणादिहेतुत्वान्मुक्तौ तदजन्यज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम्, परैरपीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ दानात् तस्य च ध्वंसप्रतियोगित्वरूपत्वात्, ध्वंसाप्रतियोगज्ञानादीनां मुक्तावनुपपश्यभावात् न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम् । जन्यत्वेन ध्वंसतेतुत्वे मानाभावात् प्रतियोगिनो विशिष्य हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात्, नचोपयोगस्य संसारदशायामन्तर्मुहूर्त्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् । केवलज्ञानादीनां कालानाश्यत्वस्य तदुपयोगक्षणिकत्वे च प्रवाहतस्तदानन्त्यस्य सिद्धान्तसिद्ध त्वादित्याद्यधिकमस्मत्कृतन्यायालोकादौ, अन्यत्र केवलेत्यादि ( १०४ - २ - २) विशेष निषेधस्य शेषाभ्यनुज्ञाफलकत्वादौपशमिकादिभावमध्यपतितस्य चारित्रादेः क्षायिकभावस्यापि सिद्धिसमये नाश इत्यस्माद्वचनाल्लभ्यते यो यः क्षायिको भावः स स नाशाप्रतियोगीतिनियमस्यानेनैवानिरासात्, केवलसम्यक्त्वाद्यन्यभात्रमात्र नाशेऽयोगिगुणस्थानचरमसमयस्य हेतुत्वात् क्षायिको भावः साद्यनन्त एवेति तु मतान्तरम्, तदाश्रयणे तु सिद्धा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy