SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लाद्वितन्तुकादिमति त्रितन्तुकाद्युत्पत्तिर्निराबाधैव स्वोत्पत्तिव्याप्यद्रव्यत्वावच्छिन्नाभावस्य हेतुत्वोपगमे तु द्वितन्तुकादिमति तन्त्वन्तरादियोगादेकतन्तुकोत्पत्तेर्दुर्वारत्वापत्तेरित्याहुः ॥ क्षमाश्रमणपूज्यपादानुसारिणस्तु चरमतन्तुसंयोगकाल एव क्रियमाणं कृतमिति नयेन पटोत्पत्तिं स्वीकुर्वते, तत्प्राक्कालीन कार्यकोटिषु पटधीस्तु पटगताभिलाषोत्कर्षदो पात्तदुक्तं घटमाश्रित्य महाभाष्ये-“ पइसमयकज्जकोडीणिरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकोडिं धूलमइ घडंमि लाएसि ॥१॥ न्ति, एवं चैकः पट इत्यादेर्बोधस्य लोके शास्त्रे च व्यवहारस्य चोपपत्तिः, नहि नाना पटाः प्रतीयन्ते व्यवहियन्ते न च चाङ्गुलीभूतलसंयोगाद्यवच्छेदेन प्राप्याद्यनन्तसंयोगानुपलब्ध्यादिवत्, सादृश्यादिवशान्नानापटानुपलब्ध्युपपत्तिः, उभयत्रैकयुक्त्यभावात्, महापटकाले द्वितन्तुकादेः स्वीकारे तन्त्वाकाशसंयोगादितोऽनन्तद्वितन्तुकाकाशसंयोगादेर्द्वितन्तुकत्रितन्तुकादेः परस्परकर्मजसंयोगद्वित्वत्रित्वादेर्वाय्वाद्यनन्तसंयोगादेश्व कल्पनामपेक्ष्य तेषां नाशस्य क्वचिदन्येषां कल्पनस्यैव च लाघवेनौचित्यात्, अन्यद्रव्ये द्रव्याभावस्य तु निरवच्छिन्नविशेषणतया हेतुत्वाद्दशाद्यवच्छेदेन पटाद्यभावसत्वेऽपि न दोषः । वस्त्रयुगादिव्यवहारस्त्वेकस्मिन् हस्तयुग्मादिव्यवहारवदुपपादनीयः । एकतन्तुकाद्युत्पत्त्यनापत्तिस्तु निर्द्रव्यद्रव्यस्य विजातीयसंयोगेन जन्यद्रव्य हेतुत्वादित्याहुः ॥ 'सर्वेऽप्येते नयवादा वस्तुत 'एगसमयंमि एगदवियस्स व हुआ वि हुंति उप्पाया' इत्यादिपर्यालोचनया संयोगविभाग जानन्तोत्पादतावन्नाशकिम्मरितधौव्यैकस्वभाववस्त्वभ्युपगमादापेक्षिकानापेक्षिकनानापटपरिणामात्मकतन्तूत्पादाभ्युपगमादस्माकं न काप्यनुपपत्तिः, एकस्मिन् पटे हस्तादिभेदेन नानापटव्यवहारस्यापि स्कन्धदेशप्रदेशकरूपद्रव्यविभागेनैवोपपत्तेरुपादानता तु तत्र व्यवहारतस्तन्तुत्वादिना निश्चयतस्तुशक्तिविशेषेणेति तन्तोरिव द्वितन्त्वादेरपि न पटानुत्पत्तिः इत्थं च For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy