________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsuri Gyanmandir
HI
परिच्छेद प्रथमः॥
अष्टसहस्री ष्ठते । न चैवं सिद्धान्तविरोधः “ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः” इत्यनुवर्तमाने “ औपशमिकादिभव्यत्वानां विवरणम् ॥ चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः” इति सूत्रसद्भावात् । तत्रौपशमिकक्षायोपशमिकौदयिकपारिणामिकभावानां दर्शनज्ञानग
त्यादीनां भव्यत्वस्य च विप्रमोक्षो मोक्ष इत्यभिसम्बन्धान्मुक्तौ विशेषगुणनिवृत्तिरिष्टा, "अन्यत्र केवलज्ञानदर्शनसिद्धत्वेभ्य” इति वचनाद॥१०४॥
नन्तज्ञानदर्शनसिद्धत्वसम्यक्त्वानामनिवृत्तिश्चेति युक्तं तथा वचनम्। कथमेवमनन्तसुखसद्भावो मुक्तौ सिद्धयेदिति चेत्, सिद्धत्ववचनात् । सकलदुःखनिवृत्तिरात्यन्तिकी हि भगवतः सिद्धत्वम् । सैव चानन्तप्रशमसुखम् । इति सांसारिकसुखनिवृत्तिरपि मुक्तौ न विरुध्यते । अनन्तसुखमेव मुक्तस्य, न ज्ञानादिकमिति “ आनन्दैकस्वभावाभिव्यक्तिर्मोक्ष" इत्यपरः सोपि युक्त्यागमाभ्यां बाध्यते । तदनन्तं सुखं मुक्तौ पुंसः संवेद्यस्वभावमसंवेद्यस्वभावं वा ? संवेद्यं चेत् , तत्संवेदनस्यानन्तस्य सिद्धिः, अन्यथानन्तस्य सुखस्य स्वयं संवेद्यत्वविरोधात् । यदि पुनरसंवेद्यमेव तत् , तदा कथं सुख नाम ? सातसंवेदनस्य सुखत्वप्रतीतेः । स्यान्मतं ते, अभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः। केवलं बाह्यार्थानां ज्ञानं नोपेयते तस्येति, तदप्येवं सम्प्रधार्यम् , किं बाह्यार्थाभावाद्वाह्यार्थसंवेदनाभावो मुक्तस्येन्द्रियापायाद्वा ? प्रथमपक्षे सुखस्यापि संवेदनं मुक्तस्य न स्यात्, तस्यापि बाह्यार्थवदभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावोपि, अन्यथा द्वैतप्रसङ्गात् । अथ द्वैतवादावलम्बिना सतोपि बाह्यार्थस्येन्द्रियापायादसंवेदनं मुक्तस्येति मतं तदप्यसंगतं, तत एव सुखसंवेदनाभावप्रसङ्गात् । अथान्तःकरणाभावेपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनमिष्यते तर्हि बाह्यार्थसंवेदनमस्तु तस्यातीन्द्रिय
ज्ञानेनैवेति मन्यता, सर्वथा विशेषाभावात् । येऽपि "निरास्रवचित्तसन्तानोत्पत्तिर्मोक्ष" इत्याचक्षते तेषामपि मोक्षतत्त्वं युक्त्याभ्युपायेन Pाच बाध्यते प्रदीपनिर्वाणोपमशान्तनिर्वाणवत् चित्तानां तत्त्वतोऽन्वितत्वसाधनात् सन्तानोच्छेदानुपपत्तेश्च निरन्वयक्षणक्षयैकान्ताभ्यु
55453
*
॥१०४॥
For Private And Personal Use Only