SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥१०३॥ www.kobatirth.org यापदिप्रञ्चायं हेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धेरध्यक्ष वाघितपक्षानन्तरं प्रयुक्तत्वात् । अथ चेतनसंसर्गादचेतन स्थापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तदुक्तं " तस्मात्तत्संसर्गादचेतनं चेतनवदिह लिङ्गम्” इति । तदप्यचर्चिताभिधानं, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गाच्चेतन संसर्गाविशेषात् । शरीराद्य संभवी बुद्ध्यादेरात्मना संसर्गविशेोस्तीति चेत्, स कोऽन्योऽन्यत्र कथंचित्तादात्म्यात्, तददृष्टकृतकत्वादिविशेषस्य शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः स्वसंविद्दितत्वात् अनुभववत् । स्वसंविदितास्ते, परसंवेदनान्यथानुपपत्तेः, इति प्रतिपादितप्रायम् । तथा चात्मस्वभावा ज्ञानादयः, चेतनत्वात्, अनुभववदेव । इति न चैतन्यमात्रेवस्थानं मोक्षः, अनन्तज्ञानादि चैतन्यविशेषेवस्थानस्य मोक्षत्वप्रतीतेः । “एतेन बुद्ध्यादिविशेषगु गोच्छेदादात्मत्व मात्रेवस्थानं मुक्तिः” इति कणभक्षाक्षपाद्मतं प्रमाणेन बाधितमुपदर्शितं पुंसोनन्तज्ञानादिस्वरूपत्व साधनात् स्वरूपोपलब्धेरेव मुक्ति:वसिद्धेः । स्यान्मतं "न बुद्ध्यादयः पुंसः स्वरूपं, ततो भिन्नत्वात् अर्थान्तरवत् । ततो भिन्नास्ते तद्विरुद्वधर्माधिकरणत्वाद्धादिवत् । तद्विरुद्धधर्माधिकरणत्वं पुनस्तेषामुत्पादविनाशधर्मकत्वादात्मनोऽनुत्पादाविनाशधर्मकत्वात्प्रसिद्धम्” इति तदयुक्तं, विरुद्धधर्माधिकरणत्वेपि सर्वथा भेदासिद्धेर्मेचकज्ञानदाकारवत् । एकं हि मेचकज्ञानमनेकश्च तदाकारो नीलादिप्रतिभासविशेष इत्येकत्वानेकत्वविरुद्धधर्माधिकरणत्वेपि मेचकज्ञानतत्प्रतिभासविशेषयोर्न भेदोऽभ्युपगम्यते, मेचकज्ञानत्वविरोधात् । यदि पुनर्युगपदनेकार्थग्राहि मेचकज्ञानमेकमेव, न तत्रानेक प्रतिभासविशेषसम्भवो यतो विरुद्धधर्माधिकरणत्वमभेदेपि स्यादिति मतं तदापि तत्किमनेकया शक्त्यानेकमर्थं युगपद् गृह्णाति किं वैकया ? यद्यनेकया तदैकमनेकशक्त्यात्मकमिति स एव विरुद्धधर्माध्यासः । ततोऽनेकशक्तेरनेकत्वधर्माधारभूतायाः पृथक्त्वात् तस्य त्वेकत्वधर्माधारत्वान्नैकत्र विरुद्धधध्यास इति चेत् कथमनेका शक्तिस्तस्येति व्यपदिश्यते ? ततो भेदादर्थान्तरवत् । सम्बन्धादिति चेत्, तर्हि तदनेकया शक्त्या संबध्यमा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥१०३शा
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy