________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्री विवरणम् ॥१०१॥
परिच्छेद: प्रथमः॥
ज्ञानम् । तथा च भूतानि, तस्मान स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षेण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शकनीयम् , अस्म- दादिग्रहणात् । ज्ञानस्य स्वसंवेदनलक्षणत्वमसिद्धमिति चेत्, न, बहिरर्थपरिच्छेदकत्वान्यथानुपपत्त्या तस्य स्वसंवेदनलक्षणत्वसिद्धेः । यो ह्यस्वसंवेदनलक्षणः स न बहिरर्थस्य परिच्छेदको दृष्टो, यथा घटादिरिति विपक्षे बाधकप्रमागसद्भावारिसद्धा हेतोरन्यथानुपपत्तिः । प्रदीपादिनानेकान्त इति चेत्, न, तस्य जडत्वेन बहिरर्थपरिच्छेदकत्वासम्भवात्, बहिरर्थपरिच्छेदकज्ञानोत्पत्तिकारणत्वात्तु प्रदीपादेर्बहिश्चक्षुरादेरिव परिच्छेदकत्वोपचारात् । न चोपचरितेनार्थपरिच्छेदकेन प्रदीपादिना मुख्यस्यार्थपरिच्छेदकत्वस्य हेतोय॑भिचारचोदनं विचारचतुरचेतसां कर्तुमुचितम् , अतिप्रसङ्गात् । स्वरूपमात्रपरिच्छेदनव्यापृते सुखादिज्ञाने बहिरर्थपरिच्छेदकत्वाभावात्पक्षाव्यापको हेतुरिति चेत्, न, तस्यापि स्वतो बहिर्भतसुखादिपरिच्छेदकत्वाद्वहिरर्थपरिच्छेदकत्वसिद्धेः कुम्भादिवेदनस्यापि सर्वथा स्वबहिर्भतार्थपरिच्छेदकत्वानुपपत्तेः सदाद्यात्मना कुम्भादेः संवेदनादभेदप्रतीतेः, अन्यथा तदसत्त्वप्रसङ्गात् । कथञ्चित्स्वबहिर्भूतत्वं तु सुखादिसंवेदनात्सुखादेरपि प्रतीयत एव, सुखादितत्संवेदनयोः कारणादिभेदाढ़ेदव्यवस्थितेः । तर्हि घटादिज्ञानवत् सुखादिज्ञानस्यापि स्वबहि तार्थपरिच्छेदकत्वात्ततोन्यस्य विज्ञानस्यासम्भवारिक स्वस्य संवेदकं ज्ञानं स्यादिति चेत्, न, तस्यैव घटादिसुखादिज्ञानस्य स्वरूपसंवेदकस्य सतः परसंवेदकत्वोपगमात् स्वसंबेदनसिद्धेः, स्वपरव्यवसायात्मकत्वात् सर्वसंवेदनस्य । स्वात्मनि क्रियाविरोधान्न स्वरूपसंवेदक ज्ञानमिति चेत् का पुनः क्रिया स्वात्मनि विरुध्यते ? न तावद्धात्वर्थलक्षणा, भवनादिक्रियायाः मित्यादिप्वभावप्रसगात् । परिस्पन्दात्मिका क्रिया स्वात्मनि विरुद्धेति चेत्, कः पुनः क्रियायाः स्वात्मा ? क्रियात्मैवेति चेत्, कथं तस्यास्तत्र विरोधः? स्वरूपस्य विरोधकत्वायोगात् । अन्यथा सर्वभावानां स्वरूपविरोधान्निरस्वरूपतानुषङ्गात् । विरोधस्य द्विष्ठत्वाच्च न क्रियायाः स्वात्मनि
2-22
45
॥१०१॥
For Private And Personal Use Only