SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir बष्टसहस्त्री विवरणम् ॥ ॥१०॥ दित्यनुमानेन न बाध्यते इति चेत् , न, मोक्षस्यानुमानादागमाञ्च प्रसिद्धप्रामाण्यादस्तित्वव्यवस्थापनात् , कचिदोषावरणक्षयस्यैवानन्तज्ञा- परिच्छेदः नादिस्वरूपलाभफलस्यानुमानागमप्रसिद्धस्य मोक्षत्वात् , “बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः” इति वचनात्। तत एव प्रथमः॥ नागमेनापि मोक्षतत्त्वं बाध्यते, तस्य तत्सद्भावावेदकत्वव्यवस्थितेः। तथा मोक्षकारणतत्त्वमपि न प्रमाणेन विरुध्यते प्रत्यक्षतोऽकारणक-19 मोक्षप्रतिपत्तेरभावात्तेन तद्वाधनायोगात् । नानुमानेनापि तद्बाधनं ततो मोक्षस्य कारणवत्त्वसिद्धेः । सकारणको मोक्षः, प्रतिनियतकालादित्वात् पटादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सर्वस्य सद्भावानुषङ्गः, परापेक्षारहितत्वादिति, नागमेनापि मोक्षकारणतत्त्वं बाध्यते, तस्य तत्साधकत्वात् “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात् । तथा संसारतत्त्वमपि न प्रसिद्धेन बाध्यते, प्रत्यक्षतः | संसाराभावासिद्धेस्तस्य तद्बाधकत्वाघटनात् । स्वोपात्तकर्मवशादात्मनो भवान्तरावाप्तिः संसारः । स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बाधेत । अनुमानं तद्बाधकमिति चेत्, न, तदभावप्रतिबद्धलिङ्गाभावाद् । गर्भादिमरणपर्यन्तचैतन्यविशिष्टकायात्मनः पुरुषस्य जन्मनः पूर्व मरणाच्चोत्तरं नास्ति भवान्तरम् , अनुपलब्धेः खपुष्पवत् , इत्यनुपलम्भः संसाराभावग्राहकः संसारतत्त्वबाधक इति चेत्, न, तस्यासिद्धेः। प्राणिनामाद्यं चैतन्यं चैतन्योपादानकारणकं, चिद्विवर्तत्वान्मध्यचैतन्यविवर्तवत् । तथाऽन्त्यचैतन्यपरिणामश्चैतन्यकार्यः, तत एव तद्वत् । इत्यनुमानेन पूर्वोत्तरभावोपलम्भाद्यथोक्तसंसारतत्त्वसिद्धेः । गोमयादेरचेतनाच्चेतनस्य वृश्चिकादेरुत्पत्तिदर्शनात्तेन व्यभिचारी हेतुरिति चेत् , न, तस्यापि पक्षीकरणात् । वृश्चिकादिशरीरस्याचेतनस्यैव गोमयादेः सम्मूर्च्छन, न पुनर्वृश्चिकादिचैतन्यविवर्तस्य, तस्य पूर्वचैतन्यविवर्तादेवोत्पत्तिप्रतिज्ञानात् । खगिचरमचित्तेन चित्तान्तरानुपादानेन व्यभिचारः साधनस्येत्यपि मनोरथमात्रं, तस्य प्रमाणतोऽप्रसिद्धत्वात् , १ दोषावरणयोहानिरित्याद्युक्तानुमानादिना. P ॥१०॥ HRA For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy