________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥ ९९ ॥
www.kobatirth.org
योगजधर्मानुगृहीतात्मन एव साक्षात् सूक्ष्मार्थदर्शित्वौचित्यादिति भावः । न च श्रवणादिजन्यतावच्छेदिका मोक्षजनकतावच्छेदिका च तत्त्वज्ञाननिष्ठामानसत्वव्याप्या जातिः कल्प्यत इति योगिज्ञानं मानसमेवेत्यपि वक्तुं युक्तम् । मानससामयाः सर्वापेक्षया दुर्बलत्वेन चाक्षुषादिसामग्रीकाले तदनुत्पत्यापत्ते भोंगेतरत्ववत्तच्चज्ञानेतरत्वस्यापि चाक्षुषसामग्र्यादि प्रतिबध्यतावच्छेदककोटौ दाने च महागौरवात् किञ्चैवं योगजधर्मानुग्रहस्य योगिन आत्मनि सदा सच्वेन तत्त्वज्ञानेतरज्ञानस्य कदाप्यनुत्पत्तिप्रसङ्गस्तथा चापसिद्धान्तः परेषां ध्यानस्तैमित्यदशायामेव तैस्तत्त्वज्ञानस्यान्यदा च योगिनां चाक्षुषादिज्ञानस्याभ्युपगमात् एतेन भोगान्यज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामिव तत्त्वज्ञानेतरज्ञानप्रतिबन्धकतावच्छेदकतया समानीतजातिविशेषवतः समाधिविशेषस्योत्तेजकत्वकल्पोऽपि निरस्तः अन्तचाक्षुषादिसामग्रीप्रतिबन्धकतायां तदुत्तेजकत्वकल्पनापेक्षया तस्यैन्द्रियकज्ञानमात्रप्रतिबन्धकत्वकल्पन एवं लाघवात् एवं च योगजधर्मानुगृहीतात्मन एव साक्षात् सूक्ष्माद्यर्थदर्शित्वमिति जैनाभ्युपगम एव श्रेयान् सकलकलङ्कराहित्यव्यवस्थितेः । एवं हि तत्तदात्मसाक्षात्कारे तत्तदात्मत्वे स्वाव्यवहितोत्तरज्ञाने च समाधिविशेषत्वेन हेतुत्वेन गौरवं सर्वविषयकत्वस्य केवलज्ञाने स्वभावमहिम्नैव सिद्धेस्तस्य कस्यचिदपि कार्यतानवच्छेदकत्वात् निखिलजात्यंशे निरवच्छिन्नप्रकारताकज्ञानत्वं तु न समाधिविशेषजन्यतावच्छेदकम्, अभावादिविषयासङ्ग्रहात्, निवच्छिन्ननिखिलविशेषविषयताकज्ञानत्वस्य कार्यतावच्छेदकत्वे विनिगमकाभावाच्चेति दिक् ' प्रत्यक्ष सामान्येनेति (९७-१-७) न चैवं सामान्यलक्षणप्रत्यासत्तिजन्यप्रत्यक्षविषयतया सूक्ष्माद्यर्थानां सिद्धसाधनम्, तदनभ्युपगमात्, तद्जन्यत्वं वा प्रत्यक्षविशेषणं देयमिति न दोष इत्यभिप्रायात् । यदि च प्रकृतानुमाने द्रव्यार्थतया
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
6 +6 +
परिच्छेदः
प्रथमः ॥
॥ ९९ ॥