________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
***
अष्टसहस्री| विवरणम् ॥ ॥९८॥
परिच्छेदः प्रथमः ॥
CAMERASACS
दुर्घटत्वात् , घटाधवच्छिन्ने विजातीयकृतित्वेन तद्वत्वेन वा हेतुत्वे सम्भवति व्यापकधर्मेण कृतित्वेन कृतिमत्वेन वा हेतुत्वायो- गाचेति दिक् । हेत्वसिद्धिंपरिहर्तुमाह भाष्यकृत्-'स्वभावेत्यादि' इत्यनुमानमुत्सारयतीति (९४-२-५) इति बद- अनुमानमात्रमुच्छेदयतीत्यर्थः, अत्रानुमानोत्सारकत्वम् अनुमानदूषणत्वं तच्च यद्यपि हेत्वसिद्धेनत्वसिद्धस्य हेतोस्तथापि ' सविशेषणे हि ' इतिन्यायानुसरणाददोषः, यावानिति तथा च मीमांसकस्यापि पर्यायत्वादिना धर्मादेरनेकक्षणास्थायित्वरूपक्षणिकत्वानुमितौ सर्वोपसंहारेण व्याप्तिग्राहकस्यावश्यानुसरणीयत्वात्तस्य चानुमानरूपत्वाद्विप्रकर्षिणामननुमेयत्वे सामान्यव्याप्तिमूलकानुमित्यनुपपत्तिरित्यर्थः । अविप्रकर्षिणामिति' आनर्थक्यादिति प्रत्यक्षादिना सिद्धौ सत्यां तत्प्रतिबन्धेनानुमितेरलब्धास्पदत्वादित्यर्थः । तथा चाप्रत्यक्षीभूतसाध्यहेतुव्यक्तिकव्याप्तिमूलानुमितेरप्यनुपपत्तिरित्यनुमानमात्रोच्छेदो व्यक्त एव तद्भयेन विप्रकर्षिणामध्यवश्यमनुमेयत्वमभ्युपगन्तव्यमिति नासिद्धता हेतोरित्याह-'सत्वादिनेति' इतः पूर्व तथा चेति शेषः । हेतुद्वयस्यानिष्टप्रसङ्गे योजितत्वेनेष्टसिद्धिहेतोरित्थमेव लाभादन्यथा हेत्वाकाङ्क्षानुपरमापत्तेरिति ध्येयम् । अनवयवेनेति (९४-२-६) कात्स्न्येनेत्यर्थः । वृत्तौ ततो धर्मादीनामिति (९४-२-९) आगमैकगम्यानां धर्मादिपदार्थानामनुमेयत्वासिद्धथुद्भावयितुर्नानुमानमात्रोच्छेदकत्वं पृथगवस्थितेऽनुमेयेऽर्थानुमानप्रवृत्तेरस्खलितत्वादित्यर्थः।। तदाह, तस्यानुमेयेऽर्थे व्यवस्थानादिति (९४-२-१०) तस्यानुमानस्य, व्यवस्थानाल्लब्धास्पदत्वात् । 'एतेनेत्यादि' एतेन विप्रकर्षिणामनुमेयत्वव्यवस्थापनेन, भागासिद्धमिति (९५-१-७) यद्यपि विप्रकर्षिणामेवार्थानां पक्षत्वे भागासिद्धत्वमप्रसक्तमिति तनिषेधोऽयुक्तः। 'प्रसक्तमेव प्रतिषिभ्यत' इति न्यायात्तथापि पदार्थत्वावच्छेदेन प्रत्यक्षत्वसाधने
***********
*
*
For Private And Personal Use Only