SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir जीवस्य स्वपरपरिणामहेतुकः, कार्यत्वान्माषपाकवत् । नन्वेवं निश्शेषावरणहानौ दोषहानेः सामर्थ्यसिद्धत्वाद्दोषहानौ वावरणहानेरन्यतरहानिरेव निश्शेषत: साध्येति चेत् , न, दोषावरणयोर्जीवपुद्गलपरिणामयोरन्योन्यकार्यकारणभावज्ञापनार्थत्वादुभयहानेनिश्शेषत्वसाधनस्य । दोषो हि तावदज्ञानं ज्ञानावरणस्योदये जीवस्य स्यात् , अदर्शनं दर्शनावरणस्य, मिथ्यात्वं दर्शनमोहस्य, विविधमचारित्रमनेकप्रकारचारित्रमोहस्य, अदानशीलत्वादिर्दानाद्यन्तरायस्येति, तथा ज्ञानदर्शनावरणे तत्प्रदोषनिह्नवमात्सर्यान्तरायाऽऽसादनोपघातेभ्यो जीवमात्रवतः, केवलिश्रुतसंघधर्मदेवावर्णवादाद्दर्शनमोहः, कषायोदयतीव्रपरिणामाच्चारित्रमोहः, विघ्नकरणादन्तराय इति तत्वार्थे प्ररूपणात् । समर्थयिष्यते चाय कार्यकारणभावो दोषावरणयोः " कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः” इत्यत्र । अथ दोष एवाविद्यातृष्णालक्षणश्चेतसोऽनादितद्वासनोद्भूतः संसारहेतुर्नावरणं पौगलिक, तेन मूर्तिमता चित्तस्यामूर्तस्यावरणायोगादिति वदतो बौद्धान्निराकर्तुमावरणग्रहणं, मूर्तिमतापि मदिरादिना चित्तस्यामूर्तस्यावरणदर्शनात् , तत्सम्बन्धाद्विभ्रमसंवेदनादन्यथा तद्नुपपत्तेः । मदिरादिनेन्द्रियाण्येवानियन्ते इति चेत् , न, तेषामचेतनत्वे तदावरणासंभवात् स्थाल्यादिवद्विभ्रमायोगात् । चेतनत्वे तेषाममूर्तत्वेपि मूर्तिमताऽऽवरणमायातमिति प्रायेणान्यत्र चिन्तितम् । ततो दोषहानिवदावरणहानिरपि निश्शेषा कचित्साध्या, तदावरणस्य दोषादन्यस्य मूर्तिमतः प्रसिद्धेः । अत एव लोष्टादौ निश्शेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानं, साध्यापरिज्ञानात् । प्रध्वंसाभावो हि दोषावरणयोः साध्यो न पुनरत्यन्ताभावः, तस्यानिष्टत्वात् , सदात्मनो मुक्तिप्रसङ्गात् । नापीतरेतराभावः, तस्य प्रसिद्धत्वात् , दोषावरणयोरनात्मत्वादात्मनश्वादोषावरणस्वभावत्वात् । प्रागभावोऽपि न साध्यस्तत एव, प्रागविद्यमानस्य दोषावरणस्य स्वकारणादात्मनि प्रादुर्भावाभ्युपगमात् । न च लोष्टादौ दोषावरणयोः प्रध्वंसाभावः संभवति, तस्य भूत्वाऽभवनलक्षणत्वात् तयोस्तत्रात्यन्तमभावात्। तत् , न, सिद्धसाध्यता । नन्वेवं, For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy