________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री तद्वत्तादृशरूपादिचाक्षुषस्यापि तैरभ्युपगन्तुं शक्यत्वादिति, द्रव्यार्थतश्चाक्षुषादेः सार्वत्रिकत्वेऽपि पर्यायार्थतस्तत्तच्चाक्षुषविशेषे विवरणम्॥
क्षयोपशमविशेषस्य हेतुत्वमवश्यं वाच्यम् , अन्यथा नियतधर्मोल्लेखानुपपत्तेः, तथा च प्रत्यासत्तीनां विशिष्य हेतुत्वमनतिप्रयो
जनं, चाक्षुषत्वावच्छिन्ने चक्षुराभिमुख्यस्यैकस्यैव प्रत्यासत्तिस्थानेऽभिषेकौचित्यादित्यस्मत्सम्प्रदायानुगतो नवीनः पन्थाः। ॥८७॥
एतेन घटाकाशसंयोगादेविशिष्यायोग्यत्वकल्पनपरिहाराय व्यासज्यवृत्तिधर्मप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वं कल्पनीयम् , तत्र कारणतावच्छेदकं कार्यतावच्छेदकं पर्याप्तिमचमेव, कारणतावच्छेदकतावच्छेदकः सम्बन्धः स्वावच्छिन्नाधारतावच्चाक्षुषत्वं, कारणतावच्छेदकः स्वविषयवृत्तिता, कार्यतावच्छेदकतावच्छेदकः स्वावच्छिन्नाधेयतावच्चाक्षुषत्वं, कार्यतावच्छेदक: सम्बन्धो विशेष्यतेति नाननुगमइत्यादि नवीनतरोक्तमप्यपास्तं, सति क्षयोपशमविशेषे यावदाश्रयप्रत्यक्षोत्पत्तिकाल एव द्वित्वसंयोगादिप्रत्यक्षोपगमेन तस्य तद्धेतुत्वे मानाभावाद् द्रव्यजात्यन्यचाक्षुषे चाक्षुषान्यसमवेतत्वस्य प्रतिबन्धकत्वेनैव घटाकाशसंयोगाद्यप्रत्यक्षत्वोपपत्तेः, इत्थमेव क्रमिकद्विवपदार्थगतद्वित्वत्रित्वादिप्रत्यक्षस्यैकत्वद्वयप्रत्यक्षोत्पत्तिकाले द्वित्वादिप्रत्यक्षस्य चोपपत्तिः। किश्च संयोगत्वादिना पर्याप्तिमत्प्रत्यक्षे न यावदाश्रयप्रत्यक्षं हेतुः, किन्तु घटादिप्रकारकसंयोगादिप्रत्यक्षे, तत्र च विशेषणतावच्छेदकप्रकारकज्ञानमुद्रयैव घटादिज्ञानस्य हेतुत्वान्न यावदाश्रयप्रत्यक्षत्वेन हेतुत्वम् , अन्यथा
घटपटोभयाभावप्रत्यक्षादौ यावत्प्रतियोगिज्ञानत्वेनापि हेतुतापत्तेरिति विना क्षयोपशमानुसरणं न कुत्राप्युपपत्तिरिति दृढतरमनुसिन्धेयम् , अधिकमस्मत्कृतस्याद्वादरहस्य-स्याद्वादकल्पलतादौ,तत्सिद्धमेतत् प्रतिबन्धककर्मक्षयोपशमक्षयलक्षणैव प्रत्यक्ष
जननयोग्यतेति । साकल्येन विरतव्यामोहः सर्व पश्यत्येवेति, ज्ञो ज्ञेय (४७-१-५) इति संवादकारिकाया अय
॥
७
॥
For Private And Personal Use Only