________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
RCOACAMACHCOOKS
भाष्ये-असिद्धेरिति प्रमाणत्वेन वाद्यसिद्धेरित्यर्थः। तामेव प्रदर्शयन् वादिनो विरुद्धभाषित्वमुद्भावयति प्रत्यक्षमित्यादिना (३६-१-२) गौणत्वात् प्रमाणस्येति (३६-१-२) प्रमाणस्य अनुमानप्रमाणस्य, गौणत्वाल्लौकिकप्रामाणव्यवहारविषयत्वेनोपचरितत्वादित्यर्थः । दुर्लभ इति (३६-१-२) उपचरितस्य मुख्यकार्याकारित्वादित्यर्थः, नहि गंगात्वेनोपचरितं तीरं स्नानावगाहनादिकार्य साधयति, सामान्य इत्यादि (३६-१-३) धूमेन वह्निसामान्ये साध्ये सिद्धसाधनं वह्निमात्रस्य सिद्धत्वात् , पर्वतीयवहेरुदेश्यस्यासिद्धेः विशेष्ये पर्वतीयवह्नौ साध्येऽनुगमाभावो व्याप्त्यभावो, यत्र धूमस्तत्र पर्वतीयवसिरित्येवमुदाह मशक्यत्वात् , सर्वत्र सामान्ये विशेषे वा साध्ये विरुद्धव्यभिचारित्वम् , पक्षे साध्याभावववृत्तित्वसंशयेन तत्संशयात्तर्कस्य चाप्रतिष्ठत्वात्तस्माद् व्याप्तेरगमकत्वान्नानुमानं प्रमाणमित्याशयः । न च व्याप्त्या सामान्यसिद्धिः पक्षधर्मतया च विशेषसिद्धिरिति न दोष इत्यपि वक्तुं शक्यम् , पित्रोाह्मणत्वेन पुत्रब्राह्मणतानुमानात् पक्षधर्मताया अनङ्गत्वादिति भावः। संवादकत्वादीति (३६-२-३) यद्यपि देशकालनरान्तरप्रत्यक्षाणि प्रमाणानि संवादकत्वात् मत्प्रत्यक्षवदित्यनुमानं कर्तुमशक्यम् , सार्वयापत्त्या पक्षप्रसिद्धरसम्भवात् , तथापि स्वप्रत्यक्षदृष्टान्तेन संवादकत्वलिङ्गेन प्रत्यक्षत्वावच्छेदेन प्रामाण्यसाधने तात्पर्य द्रष्टव्यम् , ननु संवादकत्वादिलिङ्गेन प्रामाण्यानुमितावपि नानुमानप्रामाण्यसिद्धिस्तस्याः पक्षागृहीतासंसर्गकार्थस्मृतिरूपाया उत्कटकोटिकसंशयरूपाया वा सम्भावनाया अनतिरिक्तत्वात् , क्वचिन्निर्विकल्पकष्टभाविसविकल्पकस्य व्यवहारहेतुत्वेऽप्यन्यत्र बहुशः सम्भावनाया एव तथात्वात् , तयैव सर्वोपपत्तेः, अनुमानेऽपि च संवादाभिमानात् प्रामाण्यसम्भावनायां न दोषः, अनादिवासनामूलकशशविषाणादिविकल्पव्युदासायाध्यक्षमूलकत्वं
RRCCRACOCCACANC0M
For Private And Personal Use Only