SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥५८॥ भायात् , अस्पष्टे विशेषस्यात्यस्पष्टताया एव सम्भवादिति भावः । निरवच्छिन्नानत्वादिप्रकारताशाल्याम्रादिप्रत्यक्षे निकटदे- शवृत्तित्वादेर्हेतुत्वं दूरदेशवृत्तित्वादेर्वा प्रतिबन्धकत्वं कल्प्यते, अस्तु वा सामान्यविशेषसाधारण्येनास्पष्टताख्यविषयताविशेषसम्बन्धेन साक्षात्कारत्वावच्छिन्ने दूरत्वस्य स्पष्टाख्यविषयताविशेषसम्बन्धेन तदवच्छिन्ने च सनिधानस्य हेतुत्वम् , तत्तद्देशत्तित्वविशिष्टविषयस्य ताप्येणैव वा तच्चमिति नोक्तदोषस्पर्श इत्यभिप्रायवान् समाधत्ते-एतदप्ययुक्तं विशेषेऽपि समानत्वादित्यादिना (३०. २. ५)। कुतश्चिदृष्टेत्यादि, (३०. २. १४ ) दृष्टं कारणं दूरत्वादि अदृष्टमस्पष्टक्षयोपशमः न चैवं व्यभिचारः, दूरत्वादिदोषस्थलेऽप्यस्पष्टक्षयोपशमस्यैवाभ्युपगमात् , तत्वावच्छिन्ने च तत्तद्र्व्यक्षेत्रकालभावानामेकशक्तिमत्त्वेन हेतुत्वे दोषाभावादिति दिक । संवादकत्वादिति (३१.१.३) संवादकत्वस्य च सद्विषयकत्वेन व्याप्तत्वादिति भावः । 'तथा च कथमिदमवतिष्ठत इत्यादि ( ३२.२.१२) यदि च विधिनिमन्त्रणामन्त्रणाध्येषणाचतुष्टयसाधारणी प्रवर्त्तनैव शब्दभावना, विधिःप्रेरणं भृत्यस्य निकृष्टादेः, निमन्त्रणमावश्यकप्रेरणा, आमन्त्रणं कामचारानुज्ञा, अध्येपणा सत्कारपूर्वो व्यापारः, एतच्चतुष्टयानुगतप्रवर्त्तनात्वस्य शक्यतावच्छेदकत्वे लाघवाद , आह च “अस्ति प्रवर्तनारूप-मनुस्यूतं चतुर्वपि । तत्रैव लिङ विधातव्यः, किं भेदस्य विवक्षया ॥१॥ न्यायव्युत्पादनार्थं वा, प्रपश्चार्थमथापि वा ॥ विध्यादीनामुपादानं, चतुर्णामादितः कृतम् ॥२॥" इति, प्रवर्त्तना च प्रवृत्तिजनकज्ञानविषयतावच्छेदको धर्मः, स चेष्टसाधनत्वादिरिति विभाव्यते-तदा नामान्तरेण शिष्यध्यान्ध्योत्पादनादृते न कश्चिदन्यो नैयायिकमताद्विशेष इति मन्तव्यम् । परापेक्षामन्तरेण क्वचित् कदाचिदप्यभावादिति, (३४. २.१) अत्र तस्येति योजनीयम् । तस्य ॥५८॥ REC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy