SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री सर्वत्र तज्ज्ञानमपि, संशयोत्पत्तिसमये निश्चयापत्तिरपि निश्चयत्वस्य कार्यतानवच्छेदकत्वेन तदवच्छिन्नोत्पत्तेरापादयितुमश- परिच्छेदः विवरणम। क्यत्वादेव न भवतीति तदाशयः, अस्मसिद्धान्ते तु तादृशमपि संशयत्वं निश्चयत्वं च विजातीयविजातीयक्षयोपशमज प्रथमः॥ न्यतावच्छेदकमवश्यं स्वीकर्तव्यम् , बहुविधादिसूत्र निश्चितानिश्चितयोरपि पाठात् , बह्वादिभेदानां च कारणभेदप्रतिनियतानामेव परिगणनात् , अन्यथाऽसंख्यभेदापत्तेः, अर्थसमाजग्रस्तस्य च धर्मस्य कार्यतानवच्छेदकत्वे प्रमाणाभाव एव बीजं परैरपि स्वीक्रियते, अन्यथा स्वसामानाधिकरण्यकालिकाविशेषणतोभयसम्बन्धावच्छिन्नदुरितनिष्ठप्रतियोगितावच्छेदकताकभेदवदुरितध्वंसत्वमपि तत्वज्ञानकार्यतावच्छेदकं न स्यात् , तच्च तत्र तथाविधकार्यकारणभावग्राहकस्य तमेवेत्यादि-15 वेदराशेरिखात्र बह्वादिसूत्रस्य प्रमाणस्य सचान्नास्त्येवेति तादृशस्यापि संशयत्वादेः कार्यतावच्छेदकत्वं निराबाधमिति । यदि च निश्चयसंशययोरवधारणत्वानवधारणत्वे विषयते अनुभवसिद्धे तदा तयोरेव कार्यतावच्छेदकत्वमिति युक्तमुत्पश्यामः। 8'समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्य व्यवस्थातश्च विशेषापेक्षो विमर्शः संशय' इति गौतमीयं सूत्रम्, समानो नेकेषां तत्कोटितदभावकोटिमता यो धर्मस्तदुपपत्तेद्धर्मिणि तद्वत्ताज्ञानात् , विप्रतिपत्तेविरुद्धकोटिद्वयप्रतिपादकाच्छदो नित्यो नवेत्यादिवाक्यात् , उपलब्धिरनुपलब्धिश्च लक्षणया तद्विपयौ भावाभावौतयोरव्यवस्थाऽनिश्चायकं सपक्षविपक्षव्यावृत्तधर्मवत्ताज्ञानं ततोऽसाधारणधर्मवद्धर्मिज्ञानादिति यावत् , विशिष्यते व्यावर्त्तते विशेषदर्शनविषयो यस्मात् स विशेषो विशेषादर्शनं तत्सापेक्ष इति, एतावता कारणमुक्त, लक्षणमाह-विमर्श इति' एकथर्मिकविरुद्धोभयप्रकारकं ज्ञानमिति तदर्थः, भाष्यकारस्तु समानः कोटिद्वयसहचरितो धर्मः, अनेकधर्मोऽसाधारणधर्मः, उपलब्ध्यनुपलब्ध्यव्यवस्था तत्कोटिकज्ञानस्य तदभावकोटिक ॥५७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy