________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
वचनादिना नियोगे प्रतिपाद्यत इत्यत्र प्रत्यवतिष्ठते सौगतः स्यादाकृतं सम्बन्धाद् यदीत्यादिना, (२६.१.२) सम्बन्धाद् भिन्नकारकसम्बन्धात् , तद्भेदः क्रियाभेदः, धात्वर्थस्यापीति, (२६.१.२) चैत्रमैत्राभ्यामास्यत इत्यत्र कद्वयसम्बन्धेन धात्वर्थेऽपि द्वित्वाद् द्विवचनापत्तिरिति भावः, स्वमते उपपत्तिमाह सौगतः, अस्माकं विति, (२६. १.२) भेदेन हि विवक्ष्यत इति, (२६.१.२) कर्तृभिन्नत्वेन विवक्षिता सती कर्माभिन्नत्वेन विवक्षामाटीकते कर्मभिन्नत्वेन विवक्षिता च कवभिन्नत्वेन विवक्षामिति कर्मकत्रभिधानानभिधाननियम इति भावः । पारमार्थिकत्वोपपत्तेरिति, (२६.१.३) तथा च भावनान्वयिनि सङ्ख्यान्वयात्तदभिधानानभिधानव्यवस्था पारमार्थिक्येव युक्ता, अन्यथोभयविवक्षानिमित्तस्य युगपदेकनासम्भवेनौदनः पच्यते स्वयमेवेत्यादिकर्मकर्तृप्रयोगोच्छेदापत्तेः, असत्कर्माद्यभेदविवक्षया व्यवस्थोपपादने सकर्मकाकर्मकप्रयोगादेरपि यादृच्छिकत्वापत्तेश्च । पारमार्थिक तु शवलस्वरूपेऽप्यर्थे नेच्छाधीनोऽर्थः, किन्त्वर्थप्रयोजनाद्यधीनेच्छेति न व्यवस्थाक्षतिरित्यादि दृष्टव्यम् । स्यादाकूतं ते (२८. १.३) इत्याद्यारभ्य प्रज्ञाकरमतम् , ननुसामान्यप्रत्यक्षादित्यादि (२८. १.८) संशयकारणोपपादनं भादृस्य तदसहमानस्य, न त्वनुपलम्भाद् (२८. १.९) इत्यादिरूक्तिः प्राभाकरस्य, अभाव एवेति, (२८. १. ९) अभावप्रमाणजन्या प्रमैवेत्यर्थः, सामान्येनेति, (२८. १.९) योग्यायोग्यानुपलम्भविकल्पद्वयौदासीन्येनानुपलम्भमानं प्रमाणमिति वादिन इत्यर्थः । तथानुपलब्धेरेव, (२८. १.१०) अनुपलब्धिलक्षणप्राप्तानुपलब्धेरेव, पिशाचादीनामिव संशयो भवत्वित्यर्थः, न स्यादिति अभावनिश्चयकारिणीति शेषः, स्यात् संशय इति (२८. १.१०) निश्चयसामय्यभावेन सम्भृतसामग्रीकत्वादित्यर्थः, सामान्यप्रत्यक्षतायामिति
For Private And Personal Use Only