________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ५० ॥
www.kobatirth.org
माहरेत्यत्र च्छिद्रबाघे छिद्रेतरत्वेन घटज्ञानवत् प्रकृते साक्षात् बाघे परम्परात्वप्रकारकं ज्ञानमाश्रणीयं तच्च न सम्भवति द्वारानुपस्थितेरित्यपि शङ्कनीयम्, घटेन जलमाहरेत्यत्र योग्यतया वस्तुतच्छिद्रेतरघटान्वयेऽपि छिद्रेतरत्वेनानन्वयात्तथोपस्थापकपदाभावात् मानाभावेन लक्षणानाश्रयणात्, अस्तु वा प्रकृतेऽपि साक्षादन्यसाधनत्वप्रकारेणान्वयो नीलबाधे रूपवान् घट इत्यत्र रूपस्येव नीलेतरत्वेन । नह्येवमपि काचिदनुपपत्तिर्येनापूर्वोपस्थितये नियोग आश्रीयेतेति नियोगदूषणं बोध्यम् । * विधिवदिति अलौकिकब्रह्मस्वरूपविधिवदित्यर्थः । तदज्ञानादेव प्राभाकराभिमतनियोगाज्ञानाल्लोकानां प्रवृत्तेस्तस्य वाक्यार्थत्वायोगात् प्रवर्त्तकविधेस्तु वाक्यार्थत्वं काममनुमन्यामह एव, यतस्तत्र व्यवस्थित एव प्रेरणानियोज्यवर्जितनियोगासम्भवादिना प्रत्येकनियोगपक्षदूषणानि घटन्ते । तत्र यस्य बुद्धिः प्रवृत्तिजननीमिच्छां सूते सोऽभिधेयविधिः, तज्ज्ञापकचाभिधायकविधिः, तदुक्तमुदयनाचार्यैः “प्रवृत्तिः कृतिरेवात्र, सा चेच्छातो यतश्च सा । तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापको ऽथवा ॥१॥” इति प्रवृत्तिजननी चेच्छा कृतिसाध्यत्वप्रकारिका, तज्जननी च तादृशी धीः, न तु कृत्यसाध्यत्वप्रकारकज्ञानाभावस्तद्धेतुः, गौरवात् सर्वदा चिकीर्षोत्पत्त्यापत्तेश्च ततः कृतिसाध्यत्वमेव विध्यर्थः, न च कृतिसाध्यताज्ञानस्यैव प्रवर्त्तकत्वे मधुविषसम्पृक्ता भोजने मण्डलीकरणे प्रवृत्यापत्तिः, स्वविशेषणवत्ताप्रतिसन्धानजन्यकार्यताज्ञानस्य प्रवर्त्तकत्वात्, “काम्ये हि यागपाकादौ कामना स्वविशेषणम्" ततश्च बलवदनिष्टाननुबंधिकाम्यसाधनताज्ञानात् कार्यताज्ञानं प्रवर्त्तकम्, न च तदुक्तस्थले, तृप्त भोजने न प्रवर्त्तते तदानीं कामनायाः पुरुषविशेषणत्वाभावात्, नित्ये च शौचादिकं पुरुषविशेषणम्, तेन * पत्र. १७ पृ. २ पं२ ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ५० ॥