________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्र विवरणम् ॥
॥ ४८ ॥
www.kobatirth.org
| नार्थवादस्य प्रामाण्यमित्याहुः, तन्न, आवापोद्वापाभ्यां लाघवाद् घटादिमात्र एव घटादिपदशक्तिग्रहात् कार्यत्वान्वयस्यचान्यलभ्यत्वात् प्रथमं शब्दत्वावच्छेदेन कार्यत्वान्वितशक्तिग्रहेऽपि यदा कार्यत्वस्यान्यलभ्यच्चोपस्थितिस्तदा तदंशत्यागेन शुद्धघarat घटादिपदशक्तिग्रहौचित्यात् प्रथमप्रवृत्तकल्पनायाश्चरमप्रवृत्तकल्पनया लाघवतर्कसधीचीनया बाधात् । अत एव स्वरूपपरकाव्यादिभ्योऽनुभवसिद्धोऽन्वयानुभव उपपद्यते तत्रासंसर्गाग्रहमात्रेण व्यवहारस्वीकारेऽन्यत्रापि तथोपपत्तौ शब्दप्रामाण्यप्रत्याशाया अप्यभावापत्तेरिति नैयायिकादयः । ' "द्वयोश्चेदिति ' अत्र कार्यान्वितव्युत्पन्नीयबोधे कार्यविषयकत्वेन स्वरूपव्युत्पन्नीयबोधे च स्वरूपविषयकत्वेन वाक्यस्य प्रामाण्यमिति स्याद्वादाश्रयणे एकान्तपक्षद्वयनिरासो द्रष्टव्यः । कुब्जशक्तिवादस्तु सर्वस्य सर्वार्थत्वे व्युत्पत्तिकुब्जत्व एवं सङ्गच्छते, अन्यथार्थवादेऽपि शक्तिग्रहाधीन कार्यत्वोपस्थितेः शाब्दबोधे तत्प्रवेशधौव्यप्रसङ्गात्, नयविशेषाधीने तु प्रामाण्याप्रामाण्ये तत्र तत्रापेक्षिकत्वादेवाविरुद्धे इति दिक् । +लिङ्गादिप्रत्ययार्थ इति, आदिना लोट्तव्य ग्रहणम् । अन्यनिरपेक्षो नियोजकत्वादिनाऽविशिष्टस्तस्यान्यलभ्यत्वेन तदन्तर्भावेन विधिशक्यत्वाप्रतिपादनात् । अत्रेयं प्राभाकराणां मूलप्रक्रिया - ' स्वर्गकामो यजेतेत्यत्र स्वर्गकामस्येष्टसाधनं याग इति तावन्नार्थः, प्रकृते इष्टस्य स्वर्गस्य साधनताया यागे विधिना बोधयितुमशक्यत्वात्, आशुविनाशिनो यागस्य कालान्तरभाविस्वर्गं प्रति साक्षात् साधनताया बाधितत्वात् परम्परया तत्साधनत्वस्य च परम्पराघटकापूर्वानुपस्थित्यैवानुपस्थिते:, कार्यत्वमपि नात्र विधिना बोधयितुं शक्यम् | योग्यताभावात् शाब्दे च योग्यताज्ञानस्य हेतुत्वात् प्रकृते हि कामिकार्यत्वान्वये इष्टसाधनत्वमन्वयप्रयोजकं रूपं + पत्र १४ पृ. २ पं. ११ ।
* पत्र १४ . २ पं. ८ ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ४८ ॥