SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 456-560564CONNON-565 तथा हि । अस्ति सर्वज्ञः सुनिश्चितासंभवडाधकप्रमाणत्वात्प्रत्यक्षादिवत् । प्रत्यक्षादेस्तावद्विश्वासनिबन्धनं बाधकासंभव एव सुनिश्चितः। न ततोऽपरं संवादकत्वं प्रवृत्तिसामर्थ्यमदुष्टकारणजन्यत्वं वा, तस्य तत्रावइयंभावादिति। प्रत्यक्षादिप्रमाणमुदाहरणं, वादिप्रतिवादिनोःप्रसिद्धत्वात् साध्यसाधनधर्माविकलत्वात् । सुनिश्चितासंभवद्वाधकप्रमाणश्च स्यादविद्यमानश्चेति सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनं न मन्तव्यं, विपक्षे बाधकसद्भावात् । तथा हि । यदसत्तन्न सुनिश्चितासंभवहाघकप्रमाणम् । यथा मरीचिकायां तोयं सम्भवबाघकप्रमाणं, मेरुमूर्द्धनि मोदकादिकं च सन्दिग्धासंभवहाधकम्। सुनिश्चितासंभवबाघकप्रमाणश्चसर्वज्ञः। इति प्रकृते सर्वज्ञे सिद्धमपि साधनं यदि सत्तांन साधयेत्तदा दर्शनं नादर्शनमतिशयीत, अनाश्वासात् स्वमादिविभ्रमवत् ,तस्य सुनिश्चितासंभवद्वाघकप्रमाणत्वस्याभावे सर्वत्र दर्शने दर्शनाभासे च विशेषाभावात्। “साधकबाधकप्रमाणभावात्सर्वशे संशयोस्त्वित्ययुक्तं, यस्मात्साधकबाधकप्रमाणयोर्निर्णयात् भावाभावयोरविप्रतिपत्तिरनिर्णयादारेका स्यात् । साधकनिर्णयात्तत्सत्तायामविप्रतिपत्तिर्बाधकनिर्णयात्वसत्तायाम् । उभयनिर्णयस्तु न संभवत्येव कचित् , व्याघातात् साधकबाधकामावनिर्णयवत् । साधकानिर्णयात्पुनः सत्तायामारेका स्याहाधकानिर्णयादसत्तायामिति विपश्चितामभिमतो न्यायः । ततो भवभृतां प्रभौ सुनिश्चितासम्भवहाधकप्रमाणत्वं सत्तायाः साधकं सिद्ध्यत् सुनिश्चितासंभवत्साधकप्रमाणत्वं व्यावर्त्तयत्येव, विरोधात्। नैवमेतत्तत्र सिध्यति येन सुनिश्चितासंभवडाधकप्रमाणत्वस्य व्यावतकं स्यात् । ततः For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy