SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir FARRACK KA5% 25ACK MALSAUGAT व्यभिचारित्वमेवेति चेत्, न, तस्यासिद्धत्वात् , साधकाभावात्सर्वपुरुषाणां त्रिविप्रकृष्टार्थसाक्षात्कारित्वानुपपत्तेरिति । तदेतत्सर्वमपरीक्षिताभिधानं मीमांसकस्य । न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासंभवत्साधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्टेत । नापि बाधकासंभवात्परं प्रत्यक्षादेरपि विश्वासनिबन्धनमस्ति । तत्प्रकृतेपि सिद्धं यदि तत्सत्तां न साधयेत् सर्वत्राप्यविशेषात्तदभावे दर्शनं नादर्शनमतिशतेऽनाश्वासाद्विभ्रमवत् । स्यान्मतं " मा सिधत्सर्वज्ञस्य निराकरणात्पूर्व सुनिश्चितासंभवत्साधकप्रमाणत्वं, स्वप्रत्यक्षस्य सर्वज्ञान्तरप्रत्यक्षस्य च तत्साधकस्य संभवात् , परोपदेशलिङ्गाक्षानपेक्षावितथाऽशेषसूक्ष्माद्यर्थप्रतिपादकतद्वचनविशेषात्मकलिङ्गजनितानुमानस्य च तत्साधकस्य सद्भावादनादिप्रवचनविशेषस्य च तदुद्द्योतितस्य तत्साधकत्वेन सिद्धेः। निराकरणादुत्तरकालं तु सिद्धमेव” इति । तदपि स्वमनोरथमात्रं, सर्वज्ञनिराकृतेरयोगात् सर्वथा बाधकाभावात् । सदुपलम्भकप्रमाणपश्चकनिवृत्तिलक्षणं ज्ञापकानुपलम्भनं सर्वज्ञस्य बाधकमिति चेत्, न, तस्य स्वसम्बन्धिनः परचेतोवृत्तिविशेषादिना व्यभिचारात् , सर्वसम्बन्धिनोऽसिद्धत्वात् । तदुक्तं तत्त्वार्थश्लोकवार्तिके । “ स्वसम्बन्धि यदीदं स्थाय| भिचारि पयोनिधेः। अम्भाकुम्भादिसंख्यानैः सद्भिरज्ञायमानकैः ॥ १॥ सर्वसम्बन्धि तहोद्धं किञ्चिद्बोधैर्न शक्यते । सर्वबोधोस्ति चेत्कश्चित्तहोद्धा किं निषिध्यते ॥२॥ सर्वसम्बन्धि सर्वज्ञज्ञापकानुपलम्भनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥ ३॥ नानुमानादलिङ्गत्वात् क्वार्थापत्त्युपमागतिः। सर्वज्ञस्यान्यथा 25 - 4-26 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy