SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir | इति । नोपमानमपि सर्वज्ञस्य साधकं, तत्सदृशस्य जगति कस्यचिदप्यभावात् । तथोक्तं, " सर्वज्ञसदृशं कश्चिद्यदि पश्येम सम्पति । उपमानेन सर्वज्ञं जानीयाम ततो वयम्" ॥ १॥ इति । नापत्तिरपि सर्वज्ञस्य साधिका, तदुत्थापकस्यार्थस्यान्यथानुपपद्यमानस्याभावात् । धर्माशुपदेशस्य बहुजनपरिगृहीतस्यान्यथाभावात्। तथा चोक्तम् " उपदेशो हि वुद्धादेर्धर्माधर्मादिगोचरः । अन्यथाप्युपपद्येत सर्वज्ञो यदि नाभबत् ॥१॥ बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः । उपदेशः कृतोतस्तैामोहादेव केवलात् ॥ २॥ ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः॥३॥” इति। न च प्रमाणान्तरं सदुपलम्भकं सर्वज्ञस्य साधकमस्ति । मा भूदत्रत्येदानीन्तनानामस्मदादिजनानां सर्वज्ञस्य साधकं प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्तिनां केषाश्चिद्भविष्यतीति चायुक्तं " यज्जातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् । दृष्टं सम्पति लोकस्य तथा कालान्तरेप्यभूत् " ॥१॥ इति वचनात् । तथा हि । विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणमत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहकं भवति तद्विजातीयसर्वज्ञाद्यर्थग्राहकं वा न भवति, प्रत्यक्षादिप्रमाणत्वादत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् । ननु च यथाभूतमिन्द्रियादिज नित्यं प्रत्यक्षादि सर्वज्ञाद्यर्थासाधकं दृष्टं तथाभूतमेव देशान्तरे कालान्तरे च तादृशं साध्यतेऽन्यथाभूतं वा?, तथाभूतं चेत् सिद्धसाधनम् । अन्यथाभूतं चेदप्रयोजको हि हेतुः जगतो बुद्धिमत्कारणकत्वे साध्ये सन्निवेशविशिष्टत्ववत् । इति चेत्तदसत् , तथाभूतस्यैव तथा साधनात् सिद्धसा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy