________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥ ॥ ४२ ॥
www.kobatirth.org
विनिवृत्तेरितरथा संप्रतिपत्तेः । ये तावदेकं नित्यं प्रमाणं स्वभावभेदाभावाद्वदन्ति तेषां सर्वप्रमाणविनिवृत्तिः येप्यनेकमनित्यं प्रतिक्षणं स्वभावभेदादाचक्षते तेषामपि प्रत्यक्षादिप्रमाणानां नित्यैकान्ताचेतरेणैव प्रकारेण कथञ्चिन्नित्यानित्यात्मकत्वेन संप्रतिपत्तेः । ततो नैतेषां नित्यानित्यैकान्तप्रमाणवादिनां तीर्थकृत्समयानामाप्तता । किञ्च वागक्षवुद्धीच्छापुरुषत्वादिकं कचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिषेधवादिषु तथेति परमगहनमेतत् । तथा हि । तीर्थच्छेदसम्प्रदायास्तथैकान्तवादिनो नाऽनाविलज्ञाना अविशिष्टवागक्षवुद्धीच्छादिमत्त्वादविशिष्टपुरुषत्वादेर्वा रथ्यापुरुषवत् । इति नैतेषामाप्तता । तत्प्रतिषेधवादिनां पुनः स्याद्वादिनां नातः कश्चिदविशिष्टवागादिमानविशिष्टपुरुषो वा, तस्य युक्तिशास्त्राविरोधिवाक्त्वेनाभ्युपगतत्वात्, करणक्रमव्यवधानाद्यतिवर्त्तिबुद्धित्वात्, इच्छारहितत्वाद्विशुद्धपुरुषातिशयत्वादिति । यथा वागादिकं निर्दोषज्ञाननिराकरणसमर्थ न तथा स्याद्वादन्यायवेदिभिरभिष्ट्यमाने भगवतीति परमगहनमेतत्, अयुक्तिशास्त्रविदामगोचरत्वादकलङ्कधिषणाधिगम्यत्वात् । इत्थं सिद्धं सुनिश्चितासम्भवद्वाधकप्रमात्वम् । तेन कः परमात्मा चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबन्धनानामत्यये भवभृतां प्रभुः । सकलस्याद्वादन्यायविद्विषामाप्तप्रतिक्षेपप्रकारेण हि स्याद्वादिन एवाप्तस्याप्रतिक्षेपार्हत्वेन सुनिश्चितासम्भवद्वाधकप्रमाणत्वं सिद्ध्यति । तेनैवं कारिकायास्तुरीयपादो व्याख्यायते । कः परमात्मा, पराऽऽत्यन्तिकी मा लक्ष्मीर्यस्येति विग्रहात् । चिदेव ज्ञ एव न पुनः कथञ्चिदप्यज्ञः, चिदिति शब्दस्य मुख्यवृत्त्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
प्रथमः ॥
॥ ४२ ॥