________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥
परिच्छेदः प्रथमः॥
॥४०॥
तदा तेनैव साधनस्य व्यभिचारः। अथ न तथा सिद्धं, कथं साध्यसिद्धिनिबन्धनम् ? अतिप्रसङ्गात् । स्वसंवेदनं च प्रतिपत्तुः किश्चित् कचित् कदाचित् सुनिश्चितासम्भवहाधकं किश्चित्तद्विपरीतं प्रसिद्धं न वा? यदि न प्रसिद्ध, कथं सन्देहः ? कचिदप्रसिद्धोभयविशेषस्य तत्सामान्यदर्शनेनैव तत्परामर्शिप्रत्ययस्य सन्देहस्यासम्भवाद्भभवनसंवड़ितोत्थितमात्रस्य तादृशः स्थाणुपुरुषविषयसन्देहवत् । यदि पुनस्तदुभयं प्रसिद्धं तदा स्वतः परतो वा ? अभ्यासदशायां स्वतोनभ्यासदशायां परत एवेति चेत् सिद्धमकलङ्कशासनं, सर्वस्य संवेदनस्य स्यात्स्वतः स्यात्परतः प्रामाण्याप्रामाण्ययोर्व्यवस्थानात् , अन्यथा कचियवस्थातुमशक्तः । एतेन तत्त्वोपप्लववादिनः किमदुष्टकारकसन्दोहोत्पाद्यत्वेन बाधकानुत्पत्त्या प्रवृत्तिसाम
येनान्यथा वेत्यादिविकल्पसन्दोहहेतुकप्रश्नानुपपत्तिः प्रकाशिता, खयमन्यत्रान्यदा कथञ्चिदप्रतिपन्नतद्विकल्पस्य पुनः क्वचित्तत्परामर्शिसंशयप्रत्ययायोगात् । कचित्कदाचिददुष्टकारकसन्दोहोत्पाद्यत्वादिविशेषप्रतिपत्तौ तु कुतस्तत्त्वोपप्लवसिद्धिः ? पराभ्युपगमात्तत्प्रतिपत्तेरदोष इति चेत्, स तर्हि पराभ्युपगमो यदि प्रमाणात्प्रतिपन्नः स्वयं तदा कथं प्रमाणप्रमेयतत्त्वोपप्लवः ? पराभ्युयगमान्तरात्तत्प्रतिपत्तौ तदपि पराभ्युपगमान्तरमन्यस्मात् पराभ्युपगमान्तरात्प्रतिपत्तव्यमित्यनवस्था । पराभ्युपगमं च स्वयं प्रतीयन्नेव न प्रत्येमीति ब्रुवाणः कथं स्वस्थः ? स्वयमप्रतीयंस्तु पराभ्युपगमं ततः किश्चित्प्रत्येतीति दुरवबोधं, सोयं किश्चिदपि स्वयं निर्णीतमनाश्रयन् कचिद्विचारणायां व्याप्रियत इति न वुध्यामहे, किश्चिन्निर्णीतमाश्रित्य
॥४०॥
For Private And Personal Use Only