________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥ ॥ ३६ ॥
www.kobatirth.org
सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञप्रमाणान्तराभाववचनं चार्वाकस्य । प्रत्यक्षैकप्रमाणैषणं वा व्याहतमस्य देशकालनरान्तरप्रत्यक्षाणां स्वयं प्रत्यक्षतः प्रामाण्यस्य साधने सर्वसाक्षात्कारित्वप्रसङ्गात्, संवादकत्वादिलिङ्गजनितानुमानात्तत्साधने अनुमानप्रामाण्यसिद्धिप्रसक्तेः परस्य प्रसिद्धेनानुमानेन तत्प्रमाणताव्यवस्थापने स्वस्यापि तत्सि - रनिवार्यत्वात् । अन्यथा परस्यापि तदप्रसिद्धेः कुतः प्रत्यक्षमेकमेव प्रमाणं न पुनरन्यदिति व्यवस्था स्यात् ? ॥
तथेष्टत्वाददोष इत्येकेषामप्रमाणिकैवेष्टि: । एक हि तत्त्वोपप्लववादिनः सर्वं प्रत्यक्षादिप्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतमेवेच्छन्ति । तेषां प्रमाणरहितैव तथेष्टिः सर्वमनुपप्लुतमेवेतीष्टेर्न विशिष्यते । न खलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात् । नानुमानम्, असिद्धेः । सर्व हि प्रत्यक्षमनुमेयमत्यन्तपरोक्षं च वस्तु जानन्तीति सर्वज्ञानि प्रमाणान्तराणि प्रत्यक्षानुमानागमप्रमाणविशेषाः । तेषामभावं स्वयमसिद्धं प्रत्यक्षमनुमानं वा कथं व्यवस्थापयेद्यतस्तद्विषयं स्यात् ? तथा सति सर्वं प्रमाणं सर्वस्य स्वेष्टतत्त्वविषयं भवेदिति कुतस्तत्त्वोपप्लवः ? परस्य सिद्धं प्रमाणं तदभावविषयमिति चेत्, तत् परस्य प्रमाणतः सिद्धं प्रमाणमन्तरेण वा १, यदि प्रमाणतः सिद्धं नानात्मसिद्धं नाम, प्रमाणसिद्धस्यानानात्मनां वादिप्रतिवादिनां सिद्धत्वाविशेषात् । अन्यथा परस्यापि न सिद्धयेत् प्रमाणमन्तरेण सिद्धस्यासिद्धत्वाविशेषात् । तदिमे तत्त्वोपप्लववादिनः स्वयमेकेन केनचिदपि प्रमाणेन स्वप्रसिद्धेन वा सकल
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
॥ ३६ ॥