________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानस्योत्पत्तिरर्थेष्वस्पष्टता, विषयिधर्मस्य विषयेषूपचारात् । संवेदनस्यैव ह्यस्पष्टता धर्मः स्पष्टतावत् । तस्या विषयधर्मत्वे सर्वदा तथाप्रतिभासप्रसङ्गात् कुतः प्रतिभासपरावृत्तिः स्यात् ? न चास्पष्टं संवेदनं निर्विषयमेव, संवादकत्वात् ,स्पष्टसंवेदनवत्। कचिद्विसंवाददर्शनात् ,सर्वत्र विसंवादे, स्पष्टसंवेदनेऽपि तत्प| सङ्गात् । ततो नैतत्साधु, बुद्धिरेवातदाकारा तत उत्पद्यते यदा तदाऽस्पष्टप्रतीभासव्यवहारो जगन्मत इति, चन्द्रद्वयादिप्रतिभासे तयवहारप्रसक्तेः । न च मीमांसकानां सामान्यं विशेषेभ्यो भिन्नमेव वाभिन्नमेव वा, तस्य कथश्चित्ततो भिन्नाभिन्नात्मनःप्रतीतेः। प्रमाणसिद्धे च सामान्यविशेषात्मनि जात्यन्तरे वस्तुनि तद्वाहिणो ज्ञानस्य सामान्यविशेषात्मकत्वोपपत्तेर्न काचिद्वद्धिरविशेषाकारा सर्वथास्ति, नाप्यसामान्याकारा सर्वदोभयाकारायास्तस्याः प्रतीतेः । न चार्थाकारा बुद्धिः, तस्या निराकारत्वात् तत्र प्रतिभासमानस्याकारस्यार्थधर्मत्वात् । न च निराकारत्वे संवेदनस्य प्रतिकर्मव्यवस्था ततो विरुध्यते, प्रतिनियतसामग्रीवशात् प्रतिनियतार्थव्यवच्छेदकतया तस्योत्पत्तेः प्रतिकर्मव्यवस्थानसिद्धेः साकारज्ञानवादिनामपि तथाभ्युपगमस्यावश्यम्भावित्वात् । अन्यथा सकलसमानाकारव्यवस्थापकत्वानापत्तेःसंवेदनस्य तदसिद्धेः। ततोऽसामान्याकारा बुद्धिःसामान्यावभासिनी कुतश्चिदस्पष्टा कस्मिंश्चिद्वस्तुन्यविशेषाकारा च विशेषावभासिनीति दूरे सामान्यस्य प्रतिभासोऽस्पष्टः स्याद्विशेषस्य च कस्यचित्, सकलविशेषरहितस्य सामान्यस्य प्रतिभासासंभवात् । न चोर्द्धतासामान्ये विशेषे च प्रतिनियतदेवात्वादौ
For Private And Personal Use Only