SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ २६ ॥ www.kobatirth.org फलमपश्यन् कथं प्रत्येतीति चेत् प्रत्यक्षतः कथं प्रत्येति, फलयोग्यतायाः प्रतीतेरिति चेद्वाक्यादपि तत एव तथा प्रत्येतु । फलस्यातीन्द्रियत्वात्कथं तद्योग्यता स्वव्यापारस्य कर्त्रा प्रतीयते इति चेत् प्रत्यक्षविषयस्य कथम् ? प्रतिपत्तुरभ्याससामर्थ्यात्प्रत्यक्षस्य विषये फलयोग्यतानिश्चय इति चेत् तत एव च कर्त्तुः स्वव्यापारे तद्योग्यतानिश्वयोस्तु सर्वथा विशेषाभावात् । यदप्यवादि प्रज्ञाकरेण " यजते पचतीत्यत्र भावना न प्रतीयते । यज्याद्यर्थातिरेकेण तस्या वाक्यार्थता कुतः १ ॥ पार्क करोति यागं च यदि भेदः प्रतीयते । एवं सत्यऽनवस्था स्यादसमञ्जसताकरी " ॥ करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्वर्त्तयति व्यपदेशा एते यथाकथञ्चिद्भेद परिकल्पनपुरस्सराः । नैतेभ्योस्ति पदार्थतत्त्वव्यवस्थेति । शिलापुत्रकस्य शरीरमिति भेदव्यवहारो भेदमन्तरेणापि दृश्यते । " यथा द्विजस्य व्यापारो याग इत्यभिधीयते । ततः परा पुनर्हष्टा करोतीति न हि क्रिया ।। यदि क्रिया च द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतेः ।। " इति तदपि न परीक्षाक्षमम् । " यजते पचतीत्यत्र भावनायाः प्रतीतितः । यजाद्यर्थातिरेकेण युक्ता वाक्यार्थता ततः ॥ पाकं करोति यागं चेत्येवं भेदेऽवभासिते । काऽनवस्था भवेत्तत्र तत्प्रतीत्यनुसारिणाम् " ॥ यजते पाकं करोतीति हि यथा प्रतिपत्तिस्तथा स्वव्यापारं निष्पादयतीत्यपि सैव प्रतिपत्तिः स्वव्यापारशब्देन यागस्याभिधानात्, निष्पादयतीत्यनेन तु करोतीति प्रतीतेः । यागं करोति स्वव्यापारं निष्पादयतीति नार्थभेदः यागनिष्पत्तिं निर्वर्त्तयतीत्यत्रापि याग For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ २६ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy