________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
बष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥२५॥
ACACACASSAMACHAR
स्यात् प्रत्यक्षतः सलिलादौ प्रवृत्तिवत् । तत्र हि सलिलादेरर्थक्रियायोग्यताप्रतिभासनेपि व्यक्त्यर्थ| क्रियानुभवाभावात्तदर्थप्रवर्त्तनं प्रतिपत्तुः सफलतामियर्ति नान्यथा । एवं शब्दात्मनः कार्यव्याप्ततायोग्यताप्रतिपत्तावपि व्यक्तकार्यव्याप्ततानुभवाभावात् पुरुषस्य नियोगः सफलतामियात् तथा प्रतीतेरेव चाध्यक्षत्वसिद्धेः । ततो न विवक्षारूढ एव शब्दस्यार्थः प्रमाणबलादवलम्बितुं युक्तः सन्मात्रविधिवत् । यदप्युक्तम् , नियोगो यदि शब्दभावनारूपो वाक्यार्थस्तथा सति देवदत्तः पचेदिति कर्तुरनभिधानात् ' कर्तृकरणयोस्तृतीये' ति तृतीया प्राप्नोति । कर्तुरभिधाने त्वनभिहिताधिकारात्तिहुँच चोक्तत्वान्न भवतीति । तदप्ययुक्तं, भावनाविशेषणत्वेन कर्तुः प्रतिपादनात् । भावना हि करोत्यर्थः। स च देवदत्तकर्तृकः प्रतिभाति । पचेद्देवदत्तः पाकं कुर्यादिति पाकावच्छिन्नायाः करणक्रियाया देवदत्तकर्तृकायाः प्रतीतेः, सकृदेव विशेषणविशेष्ययोः प्रतिभासाविरोधात् । नीलोत्पलादिवत् । ततो नेदं प्रज्ञाकरवचश्चारु । " क्रमप्रतीतेरेवं स्यात् प्रथमं भावनागतिः । तत्सामर्थ्यात्पुनः पश्चाद्यतः कर्ता प्रतीयते" इति । यदभ्यधायि द्विवचनबहुवचने च प्राप्नुतः एकत्वाद्व्यापारस्य । अथ कारकभेदात् स्वव्यापारभेदो भविष्यति क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति महदसमञ्जसं स्यात् । तथा हि, “ एकत्वात्कर्मणः प्राप्त क्रियैकत्वं तथाभिदः । कर्तृभेदादितीत्थं च किं कर्त्तव्यं विचक्षणै” रिति । तदप्यसत्यम् , प्रतीतिविरोधात् । प्रतीयते हि धात्वर्थस्य भेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः, नियोगस्य
*CAAAAAAAAS
॥२५॥
For Private And Personal Use Only