________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
क्तशब्दधर्मत्वप्रतिघाताभावानुषक्तेः। शब्दस्य सिद्धरूपत्वात्तद्धर्मो नियोगः कथमसिद्धो येनासौसम्पाद्यते। विवरणम् ॥
कस्यचिदित्यपि न मन्तव्यम् , विधिसम्पादनविरोधात्, तस्यापि सिद्धोपनिषद्वाक्यधर्मत्वाविशेषात् ।
प्रसिद्धस्यापि सम्पादने पुनःपुनस्तत्सम्पादनप्रवृत्त्यनुपरमात् कथमुपनिषद्वाक्यस्य प्रमाणता, तदपूर्वार्थ॥२१॥
ताविरहात्स्मृतिवत्, तस्य वा प्रमाणत्वे नियोगवाक्यं प्रमाणमस्तु, विशेषाभावात् । किञ्च तद्विधिविषयं वाक्यं गुणभावेन प्रधानभावेन वा विधौ प्रमाणं स्यात् ? यदि गुणभावेन, तदाऽग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादिरपि तदस्तु, गुणभावेन विधिविषयत्वस्य भावात् , तत्र भट्टमतानुसारिभिर्भावना(याः)प्राधान्येनोपगमात्, प्राभाकरैश्च नियोगगोचरत्वस्य प्रधानत्वाङ्गीकरणात् । तौ च भावनानियोगौ नासद्विषयौ
प्रवर्तेते प्रतियेते वा, सर्वथाप्यसतोः प्रतीतौ वा शशविषणादेरपि तदनुषक्तः, सद्रपतया च तयोविधिना४ान्तरीयकत्वसिद्धेः सिद्धं गुणभावेन विधिविषयत्वं वाक्यस्य, इति नाप्रमाणतापत्तिर्येन कर्मकाण्ड
स्य पारमार्थिकता न भवेत् । प्रधानभावेन विधिविषयं चोदनावाक्यं प्रमाणमिति चायुक्तम् , विधेः सत्यत्वे द्वैतावतारात् । तदसत्यत्वे प्राधान्याऽयोगात् । तथा हि यो योऽसत्यः स स न प्रधानभावमनुभवति, यथा तदविद्याविलासः, तथा चासत्यो विधिरिति न प्रधानभावेन तद्विषयत्वोपपत्तिः । स्यान्मतम्, न सम्यगवधारितं विधेः स्वरूपं भवता, तस्यैव यतो व्यवस्थितत्वात्, प्रतिभासमात्राद्धि पृथग् विधिः कार्यतयान प्रतीयते घटादिवत्, प्रेरकतया च नाध्यवसीयते वचनादिवत्, कर्मकरणसाधनतया
४
॥ २१ ॥
For Private And Personal Use Only