________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥ २० ॥
www.kobatirth.org
भवेत् । पटादिवत् पदार्थान्तरत्वेनाप्रतिभासनान्नियोज्यमानविषयनियोक्तृधर्मत्वेन चानवस्थानान्न नियोगो वाक्यार्थ इति चेत्, तदितरत्रापि समानम्, विधेरपि घटादिवत् पदार्थान्तरत्वेनाप्रतिभासनात्, विधाय्यमानविषयविधायकधर्मत्वेनाव्यवस्थितेश्च यथैव हि नियोज्यस्य पुंसो धर्मे नियोगेऽननुष्ठेयता, नियोगस्य सिद्धत्वात् अन्यथा तदनुष्ठानोपरमाभावानुषङ्गात्, कस्यचिद्रूपस्यासिद्धस्याभावात्, असिद्धरूपतायां वाऽनियोज्यत्वम्, विरोधाद्वन्ध्यास्तनन्धयादिवत्, सिद्धरूपेण नियोज्यत्वे तस्यैवार्थरूपेण वा नियोज्यतायामेकस्य पुरुषस्य सिद्धासिद्धरूपसङ्करान्नियोज्येतरत्वविभागासिद्धिः, तद्रूपाऽसङ्करे वा भेदप्रसङ्गादात्मनः सिद्धासिद्धरूपतयोः सम्बन्धाभावोऽनुपकारात्, उपकारकल्पनायामात्मनस्तदुपकार्यत्वे नित्यत्वहानि:, तयोरात्मोपकार्यत्वे सिद्धरूपस्य सर्वथोपकार्यत्वव्याघातः, असिद्धरूपस्याप्युपकार्यत्वे गगनकुसुमादेरुपकार्यतानुषङ्गः, सिद्धासिद्धरूपयोरपि कथञ्चिदसिद्धरूपोपगमे प्रकृतपर्यनुयोगानिवृत्तेरनवस्थानुषङ्गादित्युपालम्भः, तथा विधाप्यमानस्य पुरुषस्य धर्मे विधावपि सिद्धस्य पुंसो दर्शनश्रवणानुमननध्यानविधानविरोधः, द्विधाने वा सर्वदा तदनुपरतिप्रसक्तिः, दर्शनादिरूपेण तस्यासिद्धौ विधानव्याघातः कूर्मरोमादिवत्, सिद्धरूपेण विधाप्यमानस्य विधाने तस्यैवासिद्धरूपेण चाविधाने सिद्धासिद्धरूपसङ्कराद्विधाप्येतरत्वविभागासिद्धिः, तद्रूपासङ्करे वा भेदप्रसङ्गादात्मनः सिद्धासिद्धरूपयोस्तत्सम्बन्धाभावादिदोषासञ्जनस्याविशेषः । तथा विषयस्य योगलक्षणस्य धर्मे नियोगे तस्याऽपरिनिष्पन्नत्वात् स्वरूपाभावाद्वाक्येन प्रत्येतुमशक्यत्वस्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
211 20 11