________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ।। ॥१९॥
परिच्छेदः प्रथमः॥
REASONGS
चेत्, संवेदनं प्रतिभासते भाति चकास्तीत्यादिव्यवहारे मुख्यम् । ततो वैयधिकरण्यव्यवहारस्तु गौणस्तत्र संवेदनस्य प्रतिभासनमिति, पटस्य प्रतिभासनमित्यत्र तस्य मुख्यत्वप्रसिद्धः। कथञ्चिद्भेदमन्तरेण सामानाधिकरण्यानुपपत्तेश्च तत एव कथञ्चिनेदसिद्धिः। शुक्ल: पट इत्यत्र सर्वथा शुक्लपटयोरैक्ये हि न समानाधिकरणता पटः पट इति यथा । नापि सर्वथा भेदे, हिमवन्मकराकरवत् । तथान्यापोहस्य प्रतिभासमानस्य प्रतिभाससमानाधिकरणत्वेऽपि प्रतिभासाढ़ेदव्यवस्थितेस्तद्विषयः शब्दः कथं विधिविषय एव समवतिष्ठते, तथाभ्युपगमे च कथमन्यपरिहारेण कचित्प्रवर्तकः शब्दो यतो विधिविषयः स्यादिति सूक्तं विधेः प्रमाणत्वे तस्यैव प्रमेयत्वकल्पनायामन्यापोहानुप्रवेशोऽन्यथाऽन्यत्प्रमेयं वाच्यमिति, प्रमयरूपो विधिरिति कल्पनायामपि प्रमाणमन्यद्वाच्यमिति तस्यैवोभयस्वभावत्वविरोधात् , कल्पनावशाद्विधेः प्रमाणरूपत्वेऽन्यापोहवादानुषङ्गस्याविशेषात् । प्रमाणप्रमेयरूपो विधिरिति कल्पनाप्यनेन निरस्ता। तदनुभयरूपो विधिरिति कल्पनायां तु खरशृङ्गादिवदवस्तुतापत्तिः, प्रमाणप्रमेयस्वभावरहितस्य विधेः स्वभावान्तरेण व्यवस्थानायोगात् प्रमात्रादेरपि प्रमेयत्वोपपत्तः। अन्यथा तत्र प्रमाणवृत्तेरभावात् सर्वथा वस्तुत्वहानिः। शब्दव्यापाररूपो विधिरिति चेत्, सा शब्दभावनैव । पुरुषव्यापारः स इति चेत्, सार्थभावना स्यात् । एतेनोभयव्यापाररूपो विधिरिति प्रत्याख्यातम् । तदनुभयव्यापाररूपस्तु विधिर्विषयस्वभावश्चेत्, तस्य वाक्यकालेऽसन्निधानान्निरालम्बनशब्दवादप्रवेशः। फलस्वभावश्चत् , स एव दोषः, तस्यापि तदाऽसन्निधानात्, अन्यथा विधेरनवतारात्। निस्स्व
For Private And Personal Use Only