________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
दयनिबन्धनत्वात्। भोग्यरूपो नियोग इति चायुक्तम्-नियोक्तृप्रेरणाशून्यस्य भोग्यस्य तद्भावानुपपत्तेः (१०)। पुरुषस्वभावो हि न नियोगो घटते, तस्य शाश्वतिकत्वेन नियोगस्य शाश्वतिकत्वप्रसङ्गात् । पुरुषमात्रविधरेव तथाभिधाने वेदान्तवादपरिसमाप्तेः कुतो नियोगवादो नाम (११)। नन्वेवं नियोगनिराकरणेऽपि विधेर्वाक्यार्थत्वघटनान्न भावना वाक्यार्थः सिद्धो भट्टस्येति न चेतसि विधेयम्-विधेरपि विचार्यमाणस्य बाध्यमानत्वात् । सोऽपि हि प्रमाणरूपो वा स्यात् प्रमेयरूपो वा तदुभयरूपो वा अनुभयरूपो वा पुरुषव्यापाररूपो वा शब्दव्यापाररूपो वा द्वयव्यापाररूपो वाद्वयव्यापाररूपो वेत्यष्टौ विकल्पान्नातिकामति । तथाहि ।प्रमाणं विधिरिति कल्पनायां प्रमेयं किमपरं स्यात् ? तत्स्वरूपमेवेति चेन्न-सर्वथा निरंशस्य सन्मानदेहस्य विधेः प्रमाणप्रमेयरूपद्वयविरोधात् । कल्पितत्वात्तद्रूपद्वयस्य तत्राविरोध इति चेत्, कथमिदानीमन्यापोहः शब्दार्थः प्रतिषिध्यते-संविन्मात्रस्याप्रमाणत्वव्यावृत्त्या प्रमाणत्वमप्रमेयत्वव्यावृत्त्या च प्रमेयत्वमिति परैरभिधातुं शक्यत्वात् । वस्तुस्वभावाभिधायकत्वाभावे शब्दस्यान्यापोहाभिधायकत्वेऽपि कचित्प्रवर्तकत्वायोगान्नान्यापोहः शब्दार्थ इति चेत्, तर्हि वस्तुस्वरूपाभिधायिनोऽपि शब्दस्यान्यापोहानभिधायित्वेन्यपरिहारेण क्वचित्प्रवृत्तिनिबन्धनतापायाद्विधिरपि शब्दार्थो मा भूत्। परमपुरुषस्यैव विधेयत्वात्तदन्यस्यासम्भवान्नान्यपरिहारेण प्रवृत्तिरिति चेत्, कथमिदानी " द्रष्टव्यो रेऽयमात्मे ” त्यादिवाक्यान्नैरात्म्यादिपरिहारेणात्मनि प्रवृत्तिः, नैरात्म्यादिदर्शनादीनामपि प्रसङ्गात् । नैरात्म्यादेरनाद्यविद्योपकल्पितत्वान्न तद्दर्श
For Private And Personal Use Only