SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ १६ ॥ www.kobatirth.org मतानुसरणप्रसङ्गः । अथ तद्वाक्यकाले विद्यमानोऽसौ तर्हि न नियोगो वाक्यस्यार्थः तस्य यागादिनिष्पादनार्थत्वात् निष्पन्नस्य च यागादेः पुनर्निष्पादनायोगात्, पुरुषादिवत् । अथ तस्य किञ्चिदनिष्पन्नं रूपं तदा तन्निष्पादनार्थो नियोग इति मतम्, तर्हि तत्स्वभावो नियोगोऽप्यनिष्पन्न इति कथं वाक्यार्थः ? स्वयमसन्निहितस्य कल्पनारूढस्य वाक्यार्थत्वे स एव सौगतमतप्रवेशः ( ८ ) ॥ फलस्वभावो नियोग इत्ययमपि पक्षो न कक्षीकर्तव्यः तस्य नियोगत्वाघटनात् । न हि स्वर्गादिफलं नियोगः -- फलान्तरपरिकल्पनप्रसङ्गात् — निष्फलस्य नियोगस्यायोगात् । फलान्तरस्य च फलस्वभावनियोगवादिनां नियोगत्वापत्तौ तदन्यफल परिकल्पनेऽनवस्थाप्रसङ्गः । फलस्य वाक्यकाले स्वयमसन्निहितत्वाच्च तत्स्वभावो नियोगोऽप्यसन्निहित एवेति कथं वाक्यार्थः ? तस्य वाक्यार्थत्वे निरालम्बन शब्दवादाश्रयणात् कुतः प्रभाकरमतसिद्धिः ? स्वभावो नियोग इत्ययमपि पक्षोऽनेनैव प्रतिक्षिप्तः ( ९ ) ॥ किञ्च सन्ने वा नियोगः स्यादसन्नेव वोभयरूपो वानुभयरूपो वा ? प्रथमपक्षे विधिवाद एव । द्वितीयपक्षे निरालम्बनवादः । तृतीयपक्षे तूभयदोषानुषङ्गः । चतुर्थपक्षे व्याघातः - सत्त्वासत्त्वयोः परस्परव्यवच्छेदरूपयोरेकतरस्य निषेधेऽन्यतरस्य विधानप्रसक्तेः — सकृदेकत्र प्रतिषेधायोगात् । सर्वथा सदसत्त्वयोः प्रतिषेधेऽपि कथञ्चित्सदसत्वाविरोधाददोष इति चेत्, स्याद्वादाश्रयणप्रसङ्गः प्रभाकरस्य । किञ्च नियोगः सकलोsपि प्रवर्त्तकस्वभावो वा स्यादप्रवर्त्तकस्वभावो वा ? प्रवर्त्तकस्वभावश्चेत्, प्राभाकराणामिव ताथागतादीनामपि प्रवर्त्तकः स्यात् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ १६ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy