SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir न हि तदनेन करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम्, पशोर्भाव्यत्वेनान्वयात् । अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेनान्वय इति चेत्र यजेतेत्यत्र श्राश्रयत्ववाचकपदाभावात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स श्राश्रयः तत्त्वञ्चाश्रयत्वम् । करणत्वञ्च निष्कृष्टा शक्तिरिति लाघवम् । १८७ मलभमानस्य होमस पारायेंऽपि नात्यन्तपारार्थ्यम् । कर्म्मतयापि भावनायां साचादब्वयात् । प्रकृते तु दधेन्द्रिय कामस्येत्यादाविव यागाश्रितेन उह्निदः करणत्वेन पर्श भावयेदित्यर्थ पय्र्यवसाने धात्वर्थस्य यागस्य भावनायां साचादन्वयो न सम्भवति । किन्तु भावबान्वित करणत्वा श्रयत्वेनेत्यन्तपारायमिति भावः । यज्यानको ति । यजधातुप्रयोगानक्यापतेरित्यर्थः यज्यानर्थक्यं व्यञ्जयति नहीति । अनेन यजधातुना । समर्प्यते प्रतिपाद्यते । करणाकाङ्क्षा न निवर्त्यत इति भावः । गुणस्येति । तृतीयान्ततयोपस्थितत्वादिति भावः । फखमिति । समर्प्यत इत्यन्वयः । तथाच भाव्याकाङ्क्षापि यजिना न विवयते । पशुमिति द्वितीयान्ततयोपस्थितस्य पशोर्भाव्यत्वप्राप्तरिति भावः । For Private And Personal मनु दधेन्द्रिय कामस्येत्यादिगुणफलविधौ यथा यामस्याश्रयत्वेनान्वयः सिद्धान्तितस्तथा प्रकृतेऽप्याश्रयत्वेनान्वयोऽस्तु तेनाप्यानर्थक्य परिहारः स्यादित्याशङ्कते अथेति । निराकरोति मेति । श्राश्रयत्ववाचकेति । तथाच तहाचकपदाभावात् कथं तदुपस्थितिरिति भावः । अनूद्भिदा यजेत पशुकाम इत्यत्र उडिदा यागेन पशुं भावयेदिति नामधेयत्वसिद्धान्तेऽफि करणत्ववाचकपदविरहात् कथं करणत्वेनोपस्थितिरङ्गीक्रियते । अवोच्यते लचणया कारणत्वं लभ्यत इति । तर्हि श्राश्रयत्वमपि लक्षणया लभ्यतामित्याशङ्कते अथेति । आश्रयत्व करणत्वलक्षणयोगौरवलाघवं प्रदर्शयिष्यन् श्राश्रयत्वं निर्व्वक्ति फलायेति । फलाय इन्द्रियादिफलाय । गुणी दध्यादिः । यत्र होमादौ । कारकतां करणताम् । मत्वमाश्रयत्वमिति । तथाच फलजनकत्वेन विधीयमान गुणविशेषस्य करणभावापत्तिस्थानत्वमाश्रयत्वमिति तत्त्वेन लक्षणायां लक्ष्यतावच्छेदकमौरवमिति भावः । करणत्वेन सुचणायां ततो लाघवमुपदर्शयति करणत्वञ्चेति । निष्कृश शक्तिरिति । निष्कृष्ट +
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy