SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । वालानां सुखवोधाय भास्करण सुमेधसा । रचितोऽयं समासेन जैमिनीयार्थसंग्रहः ॥ इति महामहोपाध्यायलौगाक्षिश्रीभास्करविरचितं पूर्वमीमांसार्थसंग्रहनामकं प्रकरणं समाप्तम् । ग्रन्थमा दुरूहता शून्यत्वप्रतिपादनेन जैमिनिनये प्रवेष्टु कामानामध्ययनप्रवृत्तिमुत्पादयति वालानामिति। धमाधमविचार अकृतप्रवेशानामितार्थः । समासेन खल्पाक्षरण। जैमिनीयेति। जैमिनीयाः कर्ममीमांसादर्शनोपयोगिनो अर्थाः पदार्थाः संग्टह्यन्ते नानास्थानस्था एकस्थानस्थाः क्रियन्ते यत्र स तथाभूतो ग्रन्य इत्यर्थः । नन्वेतन्मते कानि प्रमाणनि यः स्वाभिमता अर्थाः प्रमीयन्ते। अत्रीच्यते भाष्यकारतन्त्रवार्त्तिक कारादीनां मते प्रताक्षानुमानीपमानशाब्दार्थापत्यनुपलब्धिनामानि षड़ेव प्रमाणानि । प्रमीयतेऽनेनेति व्युत्पत्त्या प्रमाकरणं प्रमाणम् । करणत्वञ्च ब्यापारवदसाधारणकारणत्वम्। व्यापारत्वञ्च तज्जन्यत्वे सति वज्जन्यजनकत्वम्। प्रमात्वञ्च स्म तीतरावाधितज्ञानत्वम् । मतिभेदनिवेशात् प्रमात्वमनुभवत्वमिति स्थितम् । तत्राप्यवाधितत्वविशेषणादाभासब्यावृत्तिः। श्राभासस्योत्तरकालीनवाधविषयत्वात् । तेन व्यापारवत्तासम्बन्धन प्रमितिविभाजकीपाध्यवच्छिन्नासाधारणकारणत्वं प्रमाणत्वमिति प्रमाणलक्षणम् । तच्च प्रताक्षादिप्रमायामिन्द्रियादीनाम्। विषयेन्द्रिय सन्निकर्षादौनान्तु व्यापारत्वम् । अथ प्रताक्षलक्षणम् । तव सूवम् । “सत्सम्योगे पुरुषसंग्रन्द्रियाणां बुद्धिजन्म, तत् प्रताक्ष"मिति । तत् प्रताक्षमिताव तदिताव्ययं तृतीयान्तञ्च । तत्सतीळतायेनान्वयः । तथाच पुरुषसीन्द्रियाणां तत्सम्पयोगे तेन सन्निकर्ष यदबुद्धिजन्म तत् सत् प्रताचमितार्थः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy