SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ अर्थसंग्रहः । सोयं धर्मों यदुद्दिश्य विहितस्तदुद्देशेन क्रियमाणस्तहेतुः। ईखरार्पणबुड्या क्रियमाणस्तु निश्रेयसहेतुः। नच तदर्पणबुयानुष्ठाने प्रमाणाभावः । ___ इदानीं धर्मसा यागादविधिसमभिव्याहृतफलविशेषजनकत्वं फलान्तरजनकत्व वेत्यवाह सोऽयमिति। यदुद्दिश्य यत्फलमभिप्रेता। तदुद्दे शेन तत्फलम्पतावैमुख्येन। तत्फलकामनयेति व्याख्यानन्त्वनुचितम्। स्वर्गादिफलवैमुख्यरहितस्य पुरुषसयाकामकतकर्मणोपि फलभागित्वदर्शनात् कामनाया अवश्यापेक्षणीयत्वाभावात्। मनु वर्हि किं तत्तत्फलविमुखेनानुष्ठितं यागादिकर्म पण्डमेवेत्यवाह ईश्वरार्पणेति । नाहं कता ईश्वराय भृत्यवत् करीमीत्यनया बुद्धत्यर्थः । निश्रेयसहेतुर्मोक्षहेतुः । तथाच फलकामनाविमुखानां पापक्षयोत्पादनहारेण यागादिकर्म मोक्षमेव मनयतीति न पण्डमितिभावः । ननु जैमिनिग्रन्थे ईश्वरापवर्गयोरनुल्ले खात् कथभेतन्मते तयोरङ्गीकार इतिचेत् । उच्यते कर्मकाण्डश्रुतिषु वर्गादिफलानामेव कीर्तनातन्मीमांसावसरे ईश्वरापवर्गानुल्ले वसा तयारसम्मतत्वानुमापकत्वाभावात्। तयोरप्रतिषिद्धत्वेन अप्रतिषिद्म परमतमनुमतं भवतीति तन्त्रयुक्तस्तन्त्रान्तरसिद्धयीस्तयोरङ्गीकारावश्यकत्वात्। अतएव ब्रह्ममौमांसायां परमेश्वरविषयकश्रुतिषु जैमिनिसिद्धान्तबादा भगवता वादरायणाचार्येण वहुभि: सूर्व रुदाहृताः। यथा साक्षादप्यविरीधं जैमिनिः । १ । २ । २८ । सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति । १ । २ । ३१ । मध्वादिष्वसम्भवादनधिकार जैमिनिः । १ । ३ । ३१ । अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । १ । ४ । १८ परं जैमिनिर्मुख्यत्वात् । ४ । ३ । १२ । ब्राह्मण जैमिनिरुपन्यासादिभ्यः । ४ । ४ । ५ । एतेषां सूवाणां व्याख्या शारीरकभाष्ये द्रष्टव्या । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy