SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ अर्थसंग्रहः। साच हिविधा श्रौती लाक्षणिकोचेति । तत्र अत्रोवा भक्ष्यत्वमभिहितम् । पञ्चनखभक्षणपरम् शशकादिपञ्चनखभक्षणविधायकम् । रागत इति। रागप्राप्तसा विधानासम्भवादितिभावः। अपूर्वविधित्वं निराकृता नियमविधित्वमपि निराकरीति नापौति। नियमपरं पञ्चपञ्चनखभक्षणसमावश्यम्भावविधायकम्। नियमपरत्वे वाधकमाह पञ्चनखापञ्चनखेति। पञ्चविधपञ्चनखतदितरपञ्चनखेत्यर्थः । युगपत् प्राप्तेर्युगपत्प्राप्तियोग्य त्वात् । पचे अप्राप्ताभावात् पाक्षिकाप्राप्ताभावात् । शशकादिपञ्चकेतरपञ्चनखभक्षणप्राप्तौ शशकादिपञ्चकभक्षणसा वाधितत्वाभाबेनाप्राप्तप्रभावादिति यावत्। अत इति, यतोऽसा नापूर्वविधित्वं सम्भवति नापि नियमविधित्वमत इतार्थः । प्रकारान्तराभावादितिभावः । इदं पञ्च पञ्चनखाभक्ष्या इति वाक्यम्। अपञ्चनखेति। शशकादिपञ्चनखेतरपञ्चनखेतार्थः। परिसङ्ग्याविधिरिति। परिसङ्ख्याया निर्दिष्टेतरनिवृत्तेबिधिरितार्थः । अन्ययोगव्यवच्छेदकोविधिरिति यावत् । परिसङ्ख्यां विभजति साचेति। हैविध्य' दर्शयति श्रौतीति । शब्दाभिधयेतार्थः। लाक्षणिको लक्षणया वोध्या। श्रोतीमुदाहरति सवेति । तयोः श्रौतौलाक्षणिक्योर्मध्ये इतार्थः । अत्रो वेति। अनायं विस्तर.। अस्तिकश्चित् प्रकृतिभूती यागविशेषः। तव पवमानादिसंज्ञकनानास्तीमलक्षणानि सामानि गेयत्वेन विहितानि। तद्दिकृतिभूतेषु क्रतुषु तु क्वचित् प्रकृतिगतस्तोमानां प्राकृतमन्त्रसङ्ख्याती अधिकसङ्ख्या विहिता। कुत्रचित्तु तेषां प्रकृतिगतमन्त्रसंख्याती न्यूनसङ्ख्या विहिता। एकविंशेनातिरावण प्रजाकामं याजयेत् । विणवेनौजकामम् । एकविंशन प्रतिष्टाकामम् । हात्रिंशाः पवमाना अभिषेचनीयसतग्रादिश्रुतिभिः । पवमानादयः स्तोमाख्यसामविशेषाः । तदुक्तं भाष्ये दशमाध्यायपञ्चमपाद । दश सामसहस्राणि शतानि च चतुद्द श । साङ्गानि सरहसमाणि यानि गायन्ति सामगाः ॥ अशौतिशतमाग्ने यं पवमानं चतुःशतम् । ऐन्द्र समात् सप्तविंशानि यानि गायन्ति सामगा इति ॥ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy