SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. ३४. ह.-एकादशिनीति यागसंज्ञा, यस्यामेकादश यूपाः पशवो वा स्युः । एकादशिन्यां भवा ऐकादशिनाः । प्रयोजनं 'मध्येनेराज्याहुती: , इत्येवमादीनां प्रयोगः ॥ ३५. ह.-समानतन्त्राणामैकादशिनधर्मा भवेयुः । दुयोरपि समूहो गण एव, यथा — मैनँ श्वेनमा लभेत वारुणं कृष्णम् ' इति । ये पुनस्सोमान्तःपातिनः पशुधर्मा ग्रहावकाशशृतंकारादयस्ते पशुगणेषु न भवन्ति । गर्भिणीनां कालभेदेन भिन्नत्वान्नैकादशिनधर्माः ॥ ३६. क.-वैश्वदेवं 'आग्नेयमष्टाकपालम्' इत्यदिविहितम् दर्शपूर्णमासलन्धैस्सहात्मीयानवप्रयाजादिधर्मान् वरुणप्रघासादीनां प्रयच्छत्तेषां प्रकृतिः ॥ ___ ह.-विश्वेदेवा देवतात्वेन यस्मिन् यागगणेन्तर्भूतास्तस्य वैश्वदेवमिति नामधेयम् । तच चातुर्मास्यानामा पर्व । वरुणप्रघासो द्वितीयं पर्व । साकमेध इति महाहविद्यते, पञ्चसञ्चराणां तत्र विधानात् , तन्निमित्तत्वाद्वैश्वदेवातिदेशस्य । इन्द्रश्शुनासीरो यस्मिन्यागगणे देवतात्वनान्तर्भूतस्तस्य शुनासीरीयमिति संज्ञा । तचातुर्मास्यानां चतुर्थ पर्व । वरुणप्रघासादीनां पर्वणां वैश्वदेवं प्रकृतिः । व:णप्रघासेषु वैश्वदेववकल्पवचनं दक्षिणविहारार्थम् ।। ३७. क.-वैश्वदेवे भवो वैश्वदेविकः । एकस्मिन्कपाले संस्कृतः परोडाश एककपालः । वैश्वदेविक एककपाल: परोडाश: घ,-गणिनां. घ–साकमेधइति तृतीयं पर्व अत्रपञ्चमहवि. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy