SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः ____ ह.-देवताया उपदेशनं देवतोपदेशनम् । इदमग्नेः पावकस्येदमनेश्शुचेरिति तयोरेवोत्तमयोर्देवतोपदेशनम् । पूर्वेषां क्रमादेव देवताविशेषसम्बन्धो सन्देहेन ज्ञायते । अतस्तयोरेवेत्युक्तम् । अत एव' हविष्येकस्मिन्न भवति ॥ २०. क.-चरवश्च पुरोडाशाश्च चरुपुरोडाशाः । तेषां गणस्समवायः । तत्र चरुपुरोडाशीयान् चर्वर्थान्पुरोडाशार्थाश्च प्रागधिवपनात् अधिवपनार्थ कृष्णाजिनादानाप्राक् पृथक्करोति । बहवश्वेधागा बहुवचनान्तेन मन्त्रेण संविभागः । यावन्तश्चरवस्नावतामयमेको भागः । यावन्तः पुरोडाशास्तावतामपरः । यथा 'आग्नेयमष्टाकपालं निवपेत' 'वैश्वानरं द्वादशकपालम्' इति । अग्न्युद्वासने यथा ‘धात्रे पुरोडाशं द्वादशकपालम्' इत्यादि । चरुशदस्तण्डुलस्वरूपसाध्यानां प्रदर्शनार्थः । यथा “इन्द्राय हरिवते धानाः' इति । पुरोडाशशब्दश्च पेप्याणां पिष्टानां, 'पोष्णं अपयति ' इति ॥ ___ ह.-चरवश्च पुरोडाशाश्च चरुपुरोडाशाः । तेषां गण; चरुपुरोडाशगण: । चरुपुरोडाशार्हाश्चरुपुरोडाशीयास्तण्डुलाः । तानधिवपनात्यागो विभजेत् । कृष्णाजिनादानस्याधिवपनाङ्गत्वात्तदादानादपि प्रागेव विभागः । अयं च विभागकालापकर्षों न्यायप्राप्त एवोपदिश्यते चरोः पेषणाभावात् । ततश्च लाजार्थेषु बीहिष्ववहननात्यागेव विभागः ॥ २१. क.-यथोक्त विभागे कृते चर्वर्थः कश्चिद्भा 1ग-स्तत्पदं For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy