SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लौकिक श्रीअनु०४ भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं, 'से कित'मित्यादि हारि वृत्ताला(१९-२२)एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादी गच्छीत तदेतल्लौकिकं द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव- द्रव्याच. ादिमहामाण्डलिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबंधभूषित: माडम्बिक:-छिन्नमंडलाधिपः कोटुम्बिक:-कतिपयकुटुम्बप्रभुः इभ्यः-अर्थवान् , स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति, श्रीदेवताध्यासितसौवर्णपट्टभूपितोत्तमाङ्गः पुरज्येष्ठो वणिक, सेनापतिः- नरपतिनिरूपितोष्ट्रहस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थनायक:- 'गणिभं धरिमं मेज पारिच्छेज व दव्वजाय तु। घेणं लाभट्टीमा वाइ जो अण्णदेसं तु // 1 // निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे / सो सत्थवाहनाम धणोब्ब लोए समुवहति // 2 // प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः, 'कल्लं पादुप्पभाताए' इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रज्ञा | पयति, प्रादुः प्रकाशन इत्यर्थे धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यतोद्यमदिवतां मानवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलस्त्वारण्यः पशुविशेषः ततश्च फुल्लोत्पल कमलयो:--विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलितं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह, 'अहापंडुरे पहाए' अथ आनन्तर्ये, तथा 'रक्तासोगे' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्ड ला॥१६॥ बोधके' कमलाकरो-हृदादिजलाश्रयस्तस्मिन्नलिनीखण्डं तद्बोधक इत्यनेन स्थलनलिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदनेवै ग्रहण, 'उत्थिते' उद्गते सूर्ये सहस्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलति सति, विशेषणबहुत्वं महत्त्वाशयशुद्धयर्थ कर्त्तव्यमितिख्यापनार्थ, ESSARESSSSSSS CACAC For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy