SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० // 15 // चेति, क्षेत्रगुणतश्च तत्र यथाभद्रिकदेवतागुणादाराधना सिद्धिमासादयतीति, अन्ये तु व्याचक्षते-यस्मिन् शिलातले सिद्धः कश्चिदिति, गतं स्थित-16 मित्यनर्थान्तरं, अहो देन्यविस्मयामंत्रणेपु त्रिष्वपि युज्यते, तत्रानित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये. अन्य पार्श्वस्थमामंत्रयत II आमंत्रणमिति, अनेन प्रत्यक्षेण उत्पत्तिकालादारभ्य प्रतिसमयं शीर्यत इति शरीरं तदेव पुद्गलसंघातनरूपत्वात् समुच्छ्यस्तेन जिनदृष्टेन भावेन भूतपूर्वगत्या जीवितशरीरयोः कथञ्चिदभेदात् आवश्यकमित्येतत्पदमाझ्यातं सामान्यविशेषरूपेण, अन्ये तु व्याचक्षते-' आघवियं' ति प्राकृत| शैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतं, प्रज्ञापितं सामान्यतो विनेयेभ्यः, प्ररूपितं प्रतिसूत्रमर्थकथनेन, दर्शितं प्रत्युपेक्षणादिदर्शनेन, इयं | क्रिया राभिरक्षरैरुपात्ता इत्थं च क्रियत इति भावना,निदर्शितं कथश्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनदर्शितं, उपदर्शितं सकलनययुक्तिभिः, अन्ये त्वन्यथापि व्याचक्षते, तदलं तदुपन्यासलक्षणेन प्रयासेनेति, अतः द्रव्यावश्यकमभिधीयते, आह-आगमक्रियातीतमचेतनमिदं कथं द्रव्या४ावश्यकमभिधीयते ?, अत्रोच्यते, अतीतकालनयानुवृत्त्या, यथा को दृष्टान्त:!, तत्र दृष्टमर्थमन्तं नयतीति दृष्टान्तः, लौकिकपरीक्षकाणां यस्मि-18 नर्थे बुद्धिसाम्यं स दृष्टान्त इत्यन्ये, अयं मधुकुम्भ आसीदित्यादि, अतीतमधुघृतघटवदिति भावना / से त' मित्यादि निगमनं / 'से किंत'मित्यादि (17-21) भव्यो योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीर| द्रव्यावश्यकं, 'जो जीवो' त्यादि, यो जीवो योन्या-अवाच्यदेशलक्षणया जन्मत्वेन सकलनिवृत्तिलक्षणेन, अनेनामगर्भव्यवच्छेदमाह, निष्कान्तो-निर्गतोऽनेनैव शरीरसमुच्छ्येणेति पूर्ववत् , आदत्तेन-गृहीतेन, अन्ये त्वभिदधति- अत्तएणं' ति आत्मीयेन, जिनदृष्टेन भावनेत्यादि पूर्ववन् , अथवा तदावरणक्षयोपशमलक्षणेन 'सेयकाले' त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते, न तावच्छिक्षते, तदेतद्भाविनी वृत्तिमंगकृित्य 4 // 15 // भव्यशरीरद्रव्यावश्यकमित्युच्यते, यथा को दृष्टान्त इत्यादि भावितार्थ यावत 'से त' मित्यादि / 'से किं तमित्यादि (१८-२२)ज्ञशरीर For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy