SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अन्निकापुत्र चरित्र ॥ ५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमनार्थं कथं जल्प्यते ? यतः सज्जनाः प्राणांतेऽपि प्रतिज्ञाभंगं न कुर्वेति यतः - अर्थो विनश्यतु विरज्यतु बंधुवर्गों । राज्यं क्षयं व्रजतु बंधनमस्तु बाढं ॥ प्राणाः प्रयांतु निधनं न तथापि संतो । धीरा निजानि न वचांसि विलोमयति ॥ १ ॥ तत्तियमित्तं जपह । जत्तियमित होइ निरवाहो || वाया मुयाण नासइ | जीवता मा सूआ होतु ॥ २ ॥ तत् श्रुत्वा अन्निका प्राह, हे स्वामिन्! मातापित्रोः सममन्यत् तीर्थ नास्ति, तेन तदर्थ कदाचित प्रतिज्ञाभंगमपि कुर्वतां न दोषः, यतः- माता गंगासमं तीथे । पिता पुष्करमेव ॥ गुरुर्जंगमतीर्थं च । माता तीर्थं पुनः पुनः ॥ १ ॥ अथैवं निजस्वामिनमाश्वास्य सातीव कोमलवचनैः स्वभ्रातरमपि संतोषयामास तेन सोऽपि देवदत्ताय निजगृहगमनायानुज्ञामयच्छत्. ततो हृष्टो देवदत्तो दध्यौ, अहो ! एवंविधा स्नेहला पतिहितकारिणी पत्नी मया क्वापि न दृष्टा ! यतः श्वश्र श्वशुरस्वस्वामि -भक्ता स्वजनवत्सला ॥ धर्मकर्मरता पत्नी । सुभाग्यादेव लभ्यते ॥ १ ॥ ततः स देवदत्तः सप्रिय उत्तरमथुराप्रति प्रस्थितः तदा सा अन्निका प्रायः संपूर्णकाला गर्भवत्यासीत्, ततः सा मार्गे एवैकं दिव्यं सुतमत् तेन कियद्दिनानि तत्रैव स्थित्वा देवदतः सपुत्रप्रियोऽये प्रस्थितः तदा अन्निकया प्रातमस्य सुत For Private and Personal Use Only मूल ॥५॥
SR No.020043
Book TitleAnnikaputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy