SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः wwwmwwwmammmmmmmmmmmmmmmmmmmmmmmm स्यादेतद्, वस्तुनः सजातीयेतरव्यावृत्तस्वरूपत्वात् प्रतिनियतैकस्वभावत्वात्सर्वभावानां यथोक्तदोषाभावः, तथा चयथैवासी कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि तस्यैकस्वभावत्वात्तेनैव रूपेण व्यावृत्तत्वाद्, इति । एतदप्ययुक्तम्, अनुभवविरुद्धत्वात् ; तथाहि-यदि, से यनैव स्वभावनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योपि; हन्त ! तर्हि, यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयापि स्यात् । न च भवति, मृत्स्वभावस्यानुभूयमानत्वात् तस्यैव तथा परिणतिदर्शनात् ; अनुभवस्य चापह्रोतुमशक्यत्वात् 'अनुभवप्रमाणकाश्च सन्तोऽ धिगमे' इति । प्रतिनियतकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः समानपरिणाम एवाभ्युपगतः, इति न काचिन्नो बाधा । इत्यलं विस्तरेण । ... तथैकान्तानिवृत्तौ तद्विलक्षणबुद्धधभाव एव, इति न स्थाकपालबुद्धिः, विशेषाभावात् ; तस्याप्रच्युतात्पन्नस्थिरैकस्वभावत्वात्, इति । एतेन स्वादारेका-'नहि कूटस्थनित्यतया-' इत्ययम् । १. अत एव । २. कपालादीनाम् । ३. अमृत्स्वभावव्यावृत्तावपि । मृत्स्वभावत्वानुपपत्त्यवसानदोषाभावः । ४. व्यावृत्तो मृत्स्वभाव एव । ५. एकस्वभावेन । ६. कपालभावः। ७. उदकादिभ्यः। ८. हन्त इति विषादे । ९. तर्हि इत्यक्षमायाम् । १०. उदकादिभ्यः । ११. तदेकान्तविभिन्नावभा.सहेतुरेव । १२. कपाले । १३. शिष्टा अनुभवमेव प्रमाणं अर्थाधिगमविषये वदन्तीत्यर्थः । १४. ननु ज्वरादिशमनौषधनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकत्त्वस्वभावानुभवनिबन्धनं किञ्चिदिष्यत इत्येतदाशङ्कयाह-प्रतीतिप्रतिनियतं च तदेकस्वभावानुभवनिबन्धनं च तुल्यस्वभावानुकारणं चेति विग्रहः । १५. अत्र च वस्तुनि न किञ्चिदेकान्तेन निवर्तते, नापि तिष्ठति, तर्हि वस्त्वेकतत्तथा- भवतीति प्रसिद्धमेतत् , न चेह वस्तुनि किञ्चिनिवर्त्ततेऽपि किञ्चित् अन्यथा दोषः, इत्याह-एकान्तेत्यादि । १६. घटविलक्षणबुद्धयभावः । १७. कपाले बुद्धयभावहेतुर्विशेषाभावोऽपि तस्य घटवस्तुनः कुतः ? इत्याह-अप्रच्युतेत्यादि। For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy