SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra अनका अनेकान्तवादप्रवेश घटपर्यायनिवृत्तौ कपालकालेऽपि तंबुध्या मृदनुभूयत एव; तदेकान्तनिवृत्ती चोद्ध्ापि पर्यायवनानुभूयेत ।'ऊर्धादि निवृत्तित एव भेदसिद्धिः' इति चेत् न ऊ देरपि मृदः सर्वथा भेदासिद्धेः । न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तँदत्यन्तभेदे तयाँ अमृत्त्वप्रसङ्गात् ; यथोदकं न मृत् , तंतोऽत्यन्तभेदाद ; एवमसावपि स्यात् , तस्याविशेषाद् , इति । स्यादेत:-अमृत्स्वभावेभ्यो व्यावृत्तत्वात् कपाल पदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावाद , इति । एतदप्यसमीक्षिताभिधानम् , वस्तुनो सजातीयेतरव्या वृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तखभाषः; एवं सति कपालपदार्थः स्यात् । न तु मृत्पिण्डशिवघटादिभ्यो मृत्स्वभावेभ्योऽपि, तघ्यावृ. त्तावमृत्स्वभावत्वप्रसङ्गात् ; यथैवामृत्स्वभावेभ्यो व्यावृत्तः सं मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभाव स्यात् , न्यायानुगतमेतद्, अन्यथा, अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावानुपपत्तेः । १. कपाल ।२. मृदा सहात्यन्तभेदः । ३. मृनिवृत्ती...मूर्द्धादिपर्यायवभानुभूयते, नहि मृनिवृत्तावूर्खादिपर्यायोऽनुभूयते । ४. मृदनिवृत्तावपि सत्यामूर्खादिनिवृत्तित एव कारणादूदे......द्धिः, इति चेत् ? । ५. पर्याय ६. सकाशात्। ७. मृत्स्वरूपाननुविद्धयो दिपायानुपलम्भात् । घटमृदा सहात्यन्तभेदे। ८. घटमृदः ९. कपालमृदः १०. घटमृदःकपालमृत् ११. अमृदेव । १२. उदकादिभ्यः । १३.नयुदकममृत्स्वभावेभ्यो व्यावृत्तम् । १४. अमृत्त्वादेव । १५.कपालमृदादेः । १६. मृत्स्वभावव्यावृत्यभ्युयगमे सति १७व्यावृत्तस्वभावः। १८. मृत्स्वभावेभ्योऽपि । १९. सन् । कपालपदार्थः । २०. न्यायश्च 'यो यत्स्वभावेभ्यो व्यावर्तते, नासौ तत्स्वभावो भवति For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy